________________
६०
बृहत्कल्प-छेदसूत्रम् -२-१/१४
वृ-'कुटमुखे घटकण्ठके डगलेषुवा मात्रकं कृत्वा' स्थापयित्वातस्य मात्रकस्योपरि 'शरावं' मल्लकं स्थाप्यते, तस्य च बुने च्छिद्रं क्रियते, तत्र च्छिद्रे वस्त्रमयी ‘लाला' लम्बमाना चीरिका पलालं वा प्रक्षिप्यते, ‘मा मोकं व्युत्सृजन्तीनां शब्दो भवतु' इति कृत्वा । तत उभयपार्वत इष्टकाः क्रियन्ते, आदिशब्दात् पीठकादिपरिग्रहः, तत्रारूढाः सत्यो रात्रौमात्रकेमोकंव्युत्सृजन्ति।।
अथ स्वपनयतनामाह[भा.२३४३] सोऊण दोन्नि जामे, चरिमे उज्झेत्तु मोयमत्तंतु।
कालपडिलेह झातो, ओहाडियचिलिमिली तम्मि॥ वृ- सुप्तवा द्वौ ‘यामौ' प्रहरौ चरमे यामे उत्थाय मोकमात्रकम् ‘उज्झित्वा' परिष्ठाप्य ततः कालं-वैरात्रिकं प्राभातिकं च प्रत्युपेक्ष्य स्वाध्यायो यतनया क्रियते । 'तस्मिश्च' चरमे यामे 'अवघाटितचिलमिलीकं चिलिमिलिकापिहितं द्वारं भवति,शेषंतुकटद्वयमपनीयत इतिभावः।
ताश्च कालं गृहीत्वा न प्रतिजाग्रति, कुतः? इत्याह[भा.२३४४] संकापदं तह भयं, दुविहा तेणा य मेहुणट्ठी य।
देह-धिइदुब्बलाओ, कालमओ ता न जग्गंति ॥ वृ- यदि ताः प्रतिश्रयद्वारे स्थित्वा कालं प्रतिजागृयुः ततः सागारिकस्यान्यस्य वा शङ्कापदं भवति-किं मन्ये एषा कञ्चिदुद्रमकं प्रतीक्षते यदेवमत्रोपविष्टा जागर्ति? इति । 'तथा' इति कारणान्तरसमुच्चये, भयं च तासामल्पसत्त्वतयोपजायते । 'द्विविधाश्च स्तेनाः' शरीरस्तेनोपधिस्तेनभेदास्तत्रागच्छेयुः, ते संयतीमुपधिं वा अपहरेयुः, मैथुनार्थिनो वा संयतोमुपसर्गयेयुः देहेन-शरीरेणधृत्याच-मानसावष्टम्भेन दुर्बलास्ताअतः संयत्यः कालं नजाग्रति' न प्रतिचरन्तीति।। [भा.२३४५] कम्मेहि मोहियाणं, अभिद्दवंताण को त्तिजा भणइ।
संकापदं व होजा, सागारिअ तेनए वा वि॥ वृ-यदि रात्रौ 'कर्मभिर्मोहिताः' घनकर्मकर्कशतया समुदीर्णमोहाः केचन पापीयांसः संयतीः शीलात् च्यावयितुमभिद्रवेयुस्ततः को विधि? इतिअतआह-तेषामभिद्रवतांयासंयती कोऽयम्?' इति ब्रूते तस्याश्चतुर्गुरुकाः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, शङ्कापदं वा सागारिक्य स्तेनकस्य वा, अपिशब्दाद् मैथुनार्थिनो वा भवेत् ॥ इदमेव भावयति- [भा.२३४६] अन्नो वि नूनमभिपडइ इत्थवीसत्थया तदट्ठीणं ।
सागारि सेग्झगावा, सइत्थिगाओ व संकेजा। वृ- तदर्थिनो नाम तद्-विवक्षितं स्तैन्यं मैथुनं वा सेवितुं ये समायातास्तेषां संयतीमुखात् 'कः?' इति वचनं श्रुत्वा शङ्कापदमुपजायते-नूनमन्योऽपि कश्चिदत्रोद्रामकः स्तेनो वाऽभिपतति येनैवमेषा 'कः?' इतिप्रश्नयति। ततश्च तेषां तत्र प्रविशतां विश्वस्तता भवति-न भयमुत्पद्यते। यस्तु 'सागारिकः' शय्यातरः “सेज्झगा वा" प्रातिवेश्मिकास्ते एकका वा सस्त्रीका वा शङ्कां कुर्यु-किं मन्ये एतासां संयतीनां दत्तसङ्केतः कोऽप्युद्रामकोऽत्रायाति? ॥ [भा.२३४७] तेनियरं व सगारो, गिण्हे मारेज सो व सागरियं ।
पडिसेह छोभ झामण, काहिंति पदोसतो जंच ॥ वृ-अथवा 'कः ?' इति वचनं श्रुत्वा सागारिक उत्थाय स्तेनम् ‘इतरंवा' मैथुनार्थिनं गृह्णीयाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
ww