________________
उद्देशक :
: १, मूलं- १४, [भा. २३४७]
६१
मारयेद्वा, 'सवा' स्तेनो मैथुनार्थी वा सागारिकं मारयेत । सागारिके च मारिते सति तदीयाः संज्ञातकाः 'प्रतिषेधं' तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुर्युः । स्तेनादयः शय्यातरेण गृहीताः सन्तः संयतीनां ‘“छोभं”ति अभ्याख्यानं दद्यु- अस्माकं भाटिरेताभिर्गृहीता आसीत् । “झामण” त्ति प्रद्विष्टा वा सन्तः शय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः । प्रद्वेषतो वा यदन्यदपि ते करिष्यन्ति तन्निष्पन्नमापद्यते । तस्मात् 'कः ?' इति न वक्तव्यम् ॥
कथं पुनस्तर्हि वक्तव्यम् ? इत्याह
[भा. २३४८] संकियमसंकियं वा, उभयट्ठि नच्च बेंति अहिलितं । छुत्ति हडि त्ति अनाहा !, नत्थि ते माया पिया वा वि ॥
वृ- उभयं स्तैन्यं मैथुनं च तदर्थिनं शङ्कितमशङ्कितं वा 'ज्ञात्वा' अवगम्य 'अभिलीयमानम्' आयान्तमेवं ब्रुवते - "छुत्ति हडि त्ति" अनुकरणशब्दावेती, छुछुरिति वा हडिरिति वा वक्तव्यमित्यर्थः । यद्वा 'हे अनाथ !' निस्वामिक ! किं ते नास्ति माता वा पिता वा यदेवमस्यां वेलायां पर्यटसि ? इति ॥
[भा. २३४९]
भंजंतुवस्सयं णे, छिन्नाल जरग्गगा सगोरहगा ।
नत्थि इहं तुह चारी, नस्ससु किं खाहिसि अहन्ना ! |
वृ- भञ्जन्ति' विध्वंसन्ते “ने” 'अस्माकमुपाश्रयं छिन्नालाः' तथाविधा दुष्टजातीयाः 'जरद्गवा'जीर्णबलीवर्दा सगोरथकाः ' कल्होडकयुक्ताः, अतो नास्त्यत्र त्वद्योग्या चारि, 'नश्य' पलायस्व, किमत्र खादिष्यसि ‘अधन्य!' हे निर्भाग्य ! त्वम् ? । प्राकृतत्वाद् गाथायां दीर्घत्वम् । एतेनान्यव्यपदेशभङ्गया तस्य प्रविशतः प्रतिषेधः कृतो भवति ॥ द्वितीयपदमाह
[भा. २३५०] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दव्वस्स व असईए, ताओ व अपच्छिमा पिंडी ।।
वृ- अध्वनिर्गतादयः संयत्यः 'त्रिकृत्वः' त्रीन् वारान् वसतिं मार्गयित्वा 'असति' अलभ्यमाने गुप्तद्वारे उपाश्रयेऽपावृतद्वारेऽपि वसन्ति । तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते ततः 'द्रव्यस्य' कपाटस्यासति कण्टिकादिकमप्यानीय द्वारं पिधातव्यम् । यावद् 'अपश्चिमा' सर्वान्तिमा यतना “ताओ व पिंडि "त्ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथां व्याचष्टे
[भा. २३५१] अन्नत्त व कवाडं, कंटिय दंड चिलिमिलि बहिं किढिया । पिंडीभवंति सभए, काऊणऽन्नोन्नकरबंधं ॥
वृ- कपाटयुक्तस्य द्वारस्याभावेऽन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् । अथ याच्यमानमपि तन्न लब्धं ततो वंशकटो याचितव्यः । तस्यालाभे 'कण्टिकाः' कण्टकशाखाः । तासामप्राप्तौ दण्डकैस्तिरश्चीनैश्चिलिमिलिका क्रियते । तावतां दण्डकानामभावे वस्त्रचिलिमिलिका बध्यते। बहिर्द्वारमूले 'किढिकाः' स्थविराः क्रियन्ते । अथ कोऽपि तत्र तासामभिद्रवणं करोति ततस्ताध्शे 'समये' सोपसर्गे सत्यन्योन्यं करबन्धं कृत्वा पिण्डीभवन्ति ॥ कथं पुनः ? इत्यत आहअंतो हवति तरुणी, सद्दं दंडेहि ते पतालिंति । अह तत्थ होंति वसभा, वारिंति गिही व ते होउं ॥
[भा. २३५२]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org