________________
बृहत्कल्प-छेदसूत्रम् -२-१/१४ वृ. 'अन्तः' मध्ये तरुण्यो गृहीतदण्डकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, ताश्चोमय्योऽपि 'शब्द' बृहद्धनिना बोलं कुर्वन्तियेन भूयाँल्लोको मिलति, ताँश्च स्तेन-मैथुनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति ततस्ते गृहिणो भूत्वा तान् निवारयन्ति॥
मू. (१५) कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए। वृ-कल्पते निर्ग्रन्थानामपावृतद्वारे उपाश्रये वस्तुमिति सूत्रार्थः ॥अथ भाष्यविस्तरः[भा.२३५३] निग्गंथदारपिहणे, लहुओ मासो उ दोस आणादी।
अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो॥ वृ-निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति ततो लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः । विराधना त्वियम्-कोऽपि साधुः 'अतिगमनं' प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाटं प्रेरितम्, तेन च तस्य शिरसोऽभिघाते परितापादिका ग्लानारोपणा । एवं निर्गमनेऽपि केनचिबहि स्थितेनपश्चान्मुखंकपाटेप्रेरितेशीर्ष भिद्येत।तथा त्रसजन्तूनांसट्टनम्, आदिशब्दात् परितापनमपद्रावणंवा द्वारे पिधीयमानेऽपाव्रियमाणे वा भवेत् । 'परिमन्थश्च' सूत्रार्थव्याघातो भूयोभूयः पिदधतामपावृण्वतां च भवति ॥ एनामेव नियुक्तिगाथां व्याख्यानयति[भा.२३५४] घरकोइलिया सप्पे, संचाराई य होति हिटुवरिं।
. ढकिंत वंगुरिते, अभिघातो नित-इंताणं॥ वृद्वारस्याधस्तादुपरिवागृहकोकिला वा सर्पोवा सञ्चारिमावा' कीटिका-कुन्थु-कंसारिकादयो जीवा भवेयुः, आदिशब्दात् कोकिलादयोवा सम्पातमसत्त्वाः, ततो द्वारंढक्कयताम् 'अपावृण्वतां च' उद्घाटयतां “नित-इंताणं"ति निर्गच्छतां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत्, सर्प-वृश्चिकादिभिर्वा साधूनामेवाभिघातो भवेत् । द्वितीयपदे द्वारं पिदध्यादपि ॥
कथम्? इत्याह[भा.२३५५] सिय कारणे पिहिज्जा, जिण जानग गच्छि इच्छिमो नाउं ।
आगाढकारणम्मि उ, कप्पइ जयणाइ उ ठएउं । वृ. 'स्यात्' कदाचित् 'कारणे' पुष्टालम्बने पिदध्यादपि द्वारम् । किं पुनस्तत् कारणम् ? इत्याह-'जिनाः' जिनकल्पिकाः 'ज्ञायकाः तस्य कारणस्य सम्यग वेत्तारः परं द्वारं न पिदधति। शिष्यःप्राह-'गच्छे' गच्छवासिनामिच्छामो वयं विधिं ज्ञातुम्। सूरिराह्आगाढं-प्रत्यनीक-स्तेनादिरूपं यत् कारणं तत्र ‘यतनया' वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगयितुं कल्पते । एष नियुक्तिगाथासमासार्थः । अथैनाभेव विवृणोति[भा.२३५६] जाणंति जिना कजं, पत्ते वि उतं न ते निसेवंति।
थेरा वि उजाणंति, अनागयं केइ पत्तंतु।। वृ. 'जिनाः' जिनकल्पिकास्तत् कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते, तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणम्, तस्मिश्रच प्राप्तेऽपि तद्' द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । 'स्थविरा अपि च' स्थविरकल्पिकाः सातिशयश्रुतज्ञानाथुपयोगवलेन केचिदनागतभेव जानन्ति, 'केचित्तु' निरतिशयाः प्राप्तमेव तत् कार्य जानते, ज्ञात्वा च यतनया तत् परिहरन्ति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org