________________
१८१
उद्देशकः १, मूलं-४२, [भा. २८८१] क्षेत्रेवसतां निमित्तबलेन ज्ञातम्, यथा-अशिवादिकमत्र भविष्यति, अथवा 'भूतम्' उत्पन्मत्राशिवादि, अतः परदेशं व्रजन्ति । एवमादिभि कारणैरध्वानं गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति ।। किं पुनस्तत्? इति अत आह[भा.२८८२] चम्माइलोहगहणं, नंदीभाणे य धम्मकरए य।
परउत्थियउवकरणे, गुलियाओ खोलमाईणि॥ वृ-चर्मशब्देन चर्ममयंतलिकाद्युपकरणंगृह्यते, आदिशब्दासिक्ककादिपरिग्रहः । लोहग्रहणेन पिप्पलकादिलोहमयोपकरणानां च ग्रहणमध्वानं गच्छता कर्त्तव्यम्, । नन्दीमाजनं धर्मकरकश्च तथा 'पररतीर्थिकोपकरणं' वक्ष्यमाणरूपं तथा 'गुलिका नाम' तुवरवृक्षचूर्णगुटिकाः खोलाःगोरसभावितानि पोतानि । एवमादीन्युपकरणानि ग्रहीतव्यानीति द्वारगाथासमासार्थः॥
अथास्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाह[भा.२८८३] तलिय पग वज्झे या, कोसग कत्ती य सिक्काए काए।
___ पिप्पलग सूइ आरिय, नक्खच्चणि सत्थकोसे य।। वृ-तलिकाः-उपानहः, पुटकाः-खल्लकानि, वनः-प्रतीतः, कोशकः-नखभङ्गरक्षार्थंयत्राङ्गुल्यः प्रक्षिप्यन्ते, कृत्ति-चर्म, सिक्ककं-प्रतीतम्, कायो नाम-कापोतिका, पिप्लकःसूची आरिका च प्रतीताः, नखार्चनी-नखहरणिका, 'शस्त्रकोशः' शिरावेधादिशस्त्रसमुदाय इति प्रतिद्वारगाथासङ्केपार्थः ।। अथैनामेव गाथांप्रतिपदं विवृणोति[भा.२८८४] तलियाउ रत्तिगमणे, केंटुप्पहतेण सावए असहू।
पुडगा विवच्चि सीए, वज्झोपुन छिन्नसंघठ्ठा ।। वृ-तलिका:-क्रमणिकास्ताश्च रात्रौ गमने कण्टकरक्षणार्थंपादेषुबध्यन्ते।सार्थवशाद्वापन्थानं मुक्त्वोत्पथेन गच्छतां स्तेन-श्वापदभयेन वा त्वरितं गम्यमाने दिवाऽपि बध्यन्ते । 'असहिष्णुः' सुकुमारपादः सकण्टकसंरक्षणार्थं क्रमणिकाः पादयोर्बजाति।ताश्चप्रथममेकतलिकाः, तदप्राप्तौ यावच्चतुस्तलिका अपि गृह्यन्ते । 'पुटकानि' खल्लकानि तानि शीतेन पादयोः 'विवर्चिकासु' विपादिकासुस्फटन्तीषु बध्यन्ते । 'वनः' पुनस्तलिकादीनां छिन्नानां-त्रुटितानां सन्धान-सट्टनं तदर्थं गृह्यते ।। [भा.२८८५] कोसग नहरक्खट्टा, हिमा-ऽहि-कंटाइसु उखपुसादी।
कत्ती वि विकरणट्ठा, विवित्त पुढवाइरक्खट्ठा ।। वृ-“कोसग"त्तिअङ्गुलीकोशको नखभङ्गरक्षार्थंगृह्यते, तत्र पादयोरगुल्योऽङ्गुष्ठकश्च प्रक्षिप्यन्ते। तथा हिमं-शीतम् अहि-कण्टकौ-प्रतीतौतदादिप्रत्यपायरक्षणार्थं खपुसा आदिशब्दादर्द्धजधिकाजचिकादयश्चगृह्यन्ते । 'कृत्ति' चर्मतत् प्रलम्बादिविकरणार्थं गृह्यते, माधूल्या लोलीभावमनुभूय मलिनानि भवन्निति कृत्वा । तथा “विवित्त"त्ति ते साधवः कदापि स्तेनैः 'विविक्ताः' मुषिता भवेयुस्ततोवस्त्राभावेकृत्तिंप्रावृण्वन्ति।यत्रवापृथिवीकायो भवति तत्र कृत्तिं प्रस्तीर्यसमुद्दिशन्ति, एवंपृथिवीकायरक्षा।आदिशब्दात्प्रतिलोमेवनदवेतृणरहितप्रदेशाभावेकृत्तिंप्रस्तीर्य तिष्ठन्तीति कृत्वा तेजःकायरक्षाऽपि कृता स्यात् ॥ __ गतं चर्मद्वारम् । अथादिग्रहणलब्धे सिक्कक-कापोतिके व्याख्यानयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org