________________
१८२
बृहत्कल्प-छेदसूत्रम् -२-१/४२ [भा.२८८६] तहि सिक्कएहि हिंडति, जत्थ विवित्ता व पल्लिगमनं वा ।
परलिंगग्गहणम्मि वि, निक्खिवणट्ठा व अनत्थ ॥ वृ-यत्र 'विविक्ताः' मुषितास्तत्र पात्रबन्धाभावे चौरपल्यां वा भिक्षार्थं गमनं विदधाना अलाबुकानि सिक्केषु कृत्वा हिण्डन्ते । चक्रचरादिसम्बन्धिपरलिङ्गेन वा भक्त-पानग्रहणे प्राप्ते सिक्ककेनपर्यटितव्यम्।अध्वकल्पादेर्वा सिक्कके निक्षेपणं कार्यम् ।प्रलम्बादिकंवा सिक्ककेष्वानीय 'अन्यत्र' स्थविरागृहादौ निक्षिप्यते । तदर्थं सिक्ककं ग्रहीतव्यम् ।। [भा.२८८७] जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि।
कप्पुवही बालाइव, वहति तेहिं पलंबे वा ।। वृ-यान्येव कारणानि सिक्ककस्योक्तानि तान्येव 'कायेऽपि' कापोतिकायामपि भवन्ति । यद्वा सिक्कक-कापोतिकयोरयमुपयोगः-'कल्पम् अध्वकल्पम् उपधिमाचार्या-ऽसहिष्णुप्रभृतीनां बालादीन्वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकशूलविद्धंवा 'ताभ्यां सिक्कक-कापोतिकाभ्यां वहन्ति ॥अथ लोहग्रहणद्वारं भावयति[भा.२८८८] पिप्पलओ विकरणट्ठा, विवित्त जुने व संघणं सूई।
आरितलिसंघणट्ठा, नक्खच्चण नक्ख-कंटाई॥ वृ-'पिप्पलकः' प्रलम्बविकरणार्थं गृह्यते । तथा 'विविक्तानां' मुषितानां यदवशिष्यमाणं वस्त्रं यद् वा स्वभावजीर्णं तस्य सन्धानार्थं सीवनार्थं वा सूची ग्रहीतव्या । त्रुटिततलिकानां सन्धानार्थमारागृह्यते । 'नखार्चनं नखहरणिका सा नखच्छेदनार्थं कण्टकादिशल्योद्धरणार्थं वा गृह्यते ॥ शस्त्रकोशः पुनरयम्-शिरावेधशस्त्रकं पच्छणशस्त्रकं कल्पनशस्त्रकं लोहकण्टिका सन्दंशकः । एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयति[भा.२८८९] कोसाऽहि-सल्ल-कंटग, अगदोसहमाइयं तु चग्गहणा।
अहवा खेत्ते काले, गच्छे पुरिसे यजंजोग्गं॥ - "कोस" त्ति शस्त्रकोशेनेदं प्रयोजनम्-अहि-सर्पस्तेन यावन्मात्रमङ्गं दष्टं तावच्छिद्यते, शल्यं वा कण्टको वा नखहरिणकया हर्तुमशक्यस्तेनोद्रियते । इह प्रतिद्वारगाथायां “सत्यकोसे .य" त्ति यश्च शब्दस्तद्रहणादगदौषधादिकं ग्रहीतव्यम् । तत्र यदनेकद्रव्यैर्निष्पन्नं तदगदम्, यत् पुनरेकाङ्गिकंतत्सर्वमप्यौषधम्।अथवाचशब्दोपादानात् 'क्षेत्रे' दक्षिणापथादौ यद्यत्र दुर्लभम्, 'काले' ग्रीष्मादौ यत् सक्तुप्रभृतिकं शीतलद्रव्यमुपयोगि, महति गच्छे वा यत् केवइयादिकं साधारणम्, 'पुरुषस्य वा' आचायदिर्यस्य य योग्यं तद् यथायोगं ग्रहीतव्यम् ।।
नन्दीभाजन-धर्मकरकयोरुपयोगमाह[भा.२८९०] एक्कं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति ।
निति वतं वइगाइसु, गालिंति दवंतु करएणं ।। वृ. "अनुकंपत्ति अध्वप्रतिपन्नानं कोऽप्यनुकम्पया ब्रूयात्- अहं युष्मभ्यं दिने दिने एकं भाजनं 'बिभर्मि' पूरयामि, ततस्तत्रनन्दीभाजनंदर्शयन्ति।अथवा 'तद्' नन्दीभाजनंभिक्षाचर्यया वजिकादिषु नयन्ति । तथा प्रासुकमप्रासुकंवा 'द्रवं' पानकं करकेण' धर्मकरकेणगालयन्ति । परतीर्थिकोपकरणमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org