________________
१८३
उद्देशक : १, मूलं-४२, [भा. २८९१] [भा.२८९१] परउत्थियउवगरणं, खेत्ते काले य जंतु अविरुद्धं ।
तरयणि-पलंबट्ठा, पडिनीए दिया व कोट्टादी॥ वृ-परयूथिकाः-तचन्निकादयस्तेषां सम्बन्धि यद् उपकरणं यत्र क्षेत्रे काले वा 'अविरुद्धम्' अर्चितं तद्जन्यां भक्त-पानग्रहणार्थं प्रलम्बानयनार्थं वा कर्त्तव्यम् । यत्र वा प्रत्यनीका भवन्ति तत्र परतीर्थिकवेषच्छन्नागच्छन्ति भक्तपानं वोत्पादयन्ति ।म्लेच्छकोट्टंवा गताः परतीर्थिकवेषण दिवा पुद्गलादिकं गृह्णन्ति । आदिशब्दात् प्रत्यन्तकोट्टादिपरिग्रहः ।।
अथ गुलिका-खोलद्वारे व्याख्यानयति[भा.२८९२] गोरसभाविय पोत्ते, पुव्वकय दवस्सऽसंभवे धोवे ।
असईय उ गुलिय मिए, सुन्ने नवरंगदइयादी॥ वृ-गोरसभावितानि पोतानि' वस्त्राणि खोलानि भण्यन्ते । तेषु पूर्वकृतेष्वध्वानं प्रविष्टानां यदा प्राशुकद्रवस्यासम्भवस्तदा तानि पोतानि धावेयुः' प्रक्षालयेयुः । अगीतार्थप्रत्ययोत्पादनार्थं च आलोच्यते-गोकुलादिदं संसृष्टपानकमानीतम् । अथ न सन्ति खेलानि ततो गुलिकाःतुवरवृक्षचूर्णगुटिकास्तद्भावनया पानकं प्राशुकीकृत्य 'मृगाः' अगीतार्थास्तेषां चित्तरक्षणार्थं 'शून्ये ग्राम प्रतिसार्थिकादीनां नवरङ्गतिकादेरिदं गृहीतम्' इत्यालोचयन्ति । विशेषचूर्णी तु गुलिका-खोलपदे इत्थं व्याख्याते-जत्थ पव्वयकोट्टाइसुपंडरंगादी पुजंति संजयाण ते पडिनीया होज तत्थ 'गुलिय' त्ति वक्कलाणि घेति । 'खोल'त्ति सीसखोला, तीए सिरं वेढियव्वं जहा न नज्जइ लोयहयं सीसं, सीससंरक्खणट्ठाए वा ।। अथैषामुपकरणानां ग्रहणं न करोति ततः[भा.२८९३] एक्कक्कम्मि य ठाणे, चउरो मासा हवंतऽनुग्घाया।
आणाइणो य दोसा, विराधना संजमाऽऽयाए॥ वृ-'एकैकस्मिन् स्थाने एकैकस्योपकरणस्याग्रहणे इत्यर्थःचत्वारोमासाः 'अनुद्धाताः' गुरवो भवन्ति, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। अमुमेवार्थं स्पष्टतरमाह[भा.२८९४] एमाइअनागयदोसरक्खणट्टा अगेण्हणे गुरुगा।
अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ॥ वृ-एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिदोषरक्षणार्थं ग्रहणं कर्तव्यम्। अथ न गृह्णाति ततः प्रत्येकं चत्वारो गुरवः । गतमुपकरणद्वारम् । अथ पूर्वप्रत्युपेक्षितेन सार्थेन गन्तव्यमिति व्याख्याति-"अनुकूले" इत्यादि । अनुकूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवति तदा 'निर्गमकः प्रस्थानं क्रियते। निर्गताश्चोपाश्रयाद्यावत्सार्थं न प्राप्नुवन्ति तावदात्मनैव शकुनं गृह्णन्ति । सार्थं प्राप्तास्तु सार्थसत्केन शकुनेन गच्छन्ति । इदमेव सविशेषमाह[भा.२८९५] अप्पत्ताण निमित्तं, पत्ता सत्थम्मि तिन्नि परिसाओ ।
सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो॥ वृ-सार्थेऽप्राप्तानां 'निमित्तं' शकुनग्रहणंभवति।प्राप्तानांतुयःसार्थस्य शकुनः ससंयतानामपि भवति । सार्थं च प्राप्ताः । सन्तस्तिः परिषदः कुर्वन्ति, तद्यथा-सिंहपर्षदं वृषभपर्षदं मृगपर्षदम्। तथा सार्थ 'शुद्धः' निर्दोष इति कृत्वा प्रस्थिताः परं यदा ‘अध्वनि' अटवीं प्राप्ता भवन्ति तदा कोऽपिप्रत्यनीकोभिक्षायाःप्रतिषेधं कुर्यादिति नियुक्तिगाथासमासार्थ ।।अथ एनामेव विवरीषुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org