________________
१८४
बृहत्कल्प-छेदसूत्रम् -२-१/४२
प्रथमपदव्याख्यानं सुगमत्वादनाद्दत्य सिंहादीनांपर्षदां व्याख्यानमाह[भा.२८९६] कडजोगि सीहपरिसा, गीयत्थ थिरा य वसभपरिसा उ ।
सुत्तकडमगीयत्था, मिगपरिसा होइ नायव्वा ।। वृ-कृतयोगिनो नाम-गीतार्था परंन तथा समर्थास्ते सिंहपर्षदुच्यन्ते, ये तु गीतार्था अपरंच 'स्थिराः' बलवन्तस्ते वृषभपर्षद्, येतु ‘कृतसूत्राः' सूत्रेऽधीतिनः परमगीतार्थास्ते मृगपर्षदिति ज्ञातव्या भवति ॥ अथ "सुद्धि त्ति पत्थियाणं"ति पदं व्याख्यायते-साधुभि प्रथमत एव सार्थाधिपतिरभिधातव्यः-वयं युष्माभिः समं व्रजामो यद्यस्माकमुदन्तमुद्वहथ । एवमुक्ते यद्यसावभ्युपगच्छति ततः शुद्धः सार्थ इति मत्वा प्रस्थिताः, परमटवीप्राप्तानां कोऽप्येवं कुर्यात्[भा.२८९७] सिद्धत्थग पुप्फे वा, एवं वुत्तु पि निच्छुभइ पंतो।
भत्तं वा पडिसेहइ, तिण्हऽणुसट्टाइ तत्य इमा ।। वृ-यथा 'सिद्धार्था' सर्षपाश्चम्पकपुष्पाणिवा शिरसिस्थापितानि काञ्चिदपिपीडांन कुर्वन्ति, एवं यूयमपिमम कमपि भारंन कुरुथ। एवमुक्त्वाऽपि कश्चित् 'प्रान्तः' भिक्षूपासकादिरटवीमध्ये सार्थाद् निष्काशयति-मा यूयमस्माभि सार्द्धमागच्छतेति; भक्तपानं वा प्रतिषेधयति-माऽमीषां कोऽपि किञ्चिदपि दद्यात् ततः 'त्रयाणां' सार्थ-सार्थवाहा-ऽऽयत्तिकानामनुशिष्टयादिका इदं यतना कर्तव्या॥तामेवाह[भा.२८९८] अनुसट्ठी धम्मकहा, विज निमित्ते पभुत्तकरणं वा ।
परउत्थिगा व वसभा, सयंव थेरी व चउभंगो॥ वृ- यद् इहलोकापायप्रदर्शनं क्रियते साऽनुशिष्टिरुच्यते, यत् पुनरिह परत्र च सपरपञ्चं कर्मविपाकोपदर्शनं सा धर्मकथा, तयाऽनुशिष्टया धर्मकथया वा सार्थसार्थवाह आयत्तिका वा उपशमयितव्याः, विद्यया मन्त्रेण वाते वशीकर्तव्याः, निमित्तेन वा आवर्तनीयाः ।यो वा साधुः प्रभुः-सहयोधी बलवान्ससार्थवाहंबद्धवास्वयमेव सार्थमधिष्ठायप्रभुत्वंकरोति।एषा निष्काशने यतना । भिक्षाप्रतिषेधे पुनरियम्-सर्वथा भिक्षाया अलाभे वृषभाः परयूथिका भूत्वा भक्तपानमुत्पादयन्ति, सातवाहं वा प्रज्ञापयन्ति । यदि च सर्वेऽपि गीतार्थास्ततः 'स्वयं वा' स्वलिङ्गेनैव रात्रिभक्तविषययाचतुर्भङ्गया यतन्ते।अथागीतार्थमिश्रास्ततः स्थविरायागृहे निक्षिपन्ति ॥ अमुमेवान्त्यपादं व्याख्यानयति[भा.२८९९] पडिसेह अलंभे वा, गीयत्थेसु सयमेव चउभंगो।
थेरिसगासंतुमिए, पेसे तत्तो व आनीयं ।। वृ- सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतः, यद्वा न कृतः प्रतिषेधः परं स्तेनैः सार्थ सर्वोऽपि विलुलितः अतो भक्तपानं न लभ्यते, ततो यदि सर्वेऽपि गीतार्थास्तदा ‘स्वयमेव' परलिङ्गमन्तरेण रात्रिभक्तचतुर्भङ्गी यतनया प्रतिसेवितव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । अथागीतार्थमिश्रास्ततो यदि तत्र सार्थे भद्रिका स्थविरा विद्यते तदा तस्याः समीपे निक्षिपन्ति । ततः स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पार्वादानाययेत्, 'ततो वा' स्थविरासमीपादानीतमित्यगीतार्थानां पुरतो भणन्ति ॥ अथवा
[भा.२९००] कुओ एयं पल्लीओ, सड्डा थेरि पडिसत्थिगाओ वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org