________________
उद्देशक : १, मूलं-४२, [भा. २९००]
१८५ नायम्मिय पन्नवणा, न हु असरीरो भवइ धम्मो ।। वृ-वृषभैः स्थविरासमीपादानीते सति यदि ते मृगाः प्रश्नयेयुः-कुत एतदानीतम् ?, ततो वक्तव्यम्-पल्लयाः सकासादिदमानीतम्, दानादिश्राद्धैर्वा दत्तम्, स्थविरया वा वितीर्णम्, प्रतिसार्थिकाद् वा लब्धम् । एवमपि यदि तैमूंगैतिं भवति ततस्तेषां प्रज्ञापना कर्तव्या- भो भद्राः ! नास्ति अशरीरः' शरीरविरहितो धर्म अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयम्, उक्तञ्च
शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः।
शरीराच्छ्रवते धर्म, पर्वतात् सलिलं यथा ॥ अतः प्रतिसेवध्वमिदम्, पश्चादिदं चान्यच्च प्रायश्चित्तेन विशोधयिष्याम इति ।। अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाह[भा.२९०१] पुरतो वच्चंति मिगा, मज्झे वसभा उ मग्गओ सीहा।
पिट्ठओ वसभऽन्नेसिं, पडियाऽसहुरक्खगा दोण्हं ।। अध्वनि गच्छतां पुरतः ‘मृगाः' अगीतार्था मध्ये 'वृषभाः' समर्थ-गीतार्था 'मार्गतः' पृष्ठतः 'सिंहाः' गीतार्था व्रजन्ति । अन्येषामाचार्याणां मतेन-पृष्ठतो वृषभाव्रजन्ति। किं कारणम् ? इति अत आह-'द्वयानां' मृग-सिंहानांबाल-वृद्धानां वा ये 'पतिताः' परिश्रान्ता येच 'असहिष्णवः' क्षुधा-पिपासापरीषहाभ्यां पीडितास्तेषां रक्षका वृषभाः पृष्ठतः स्थिता व्रजन्ति ॥अथवा[भा.२९०२] पुरतो यपासतो पिट्ठतोय वसभा हवंति अद्धाणे ।
गणवआसे वसभा, मिगमझे नियम वसभेगो॥ वृ-अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च व्रजन्ति । तथा गणपति-आचार्यस्तस्य पार्वे नियमादेव वृषभा भवन्ति । मृगाणां च मध्ये नियमादेको वृषभो भवति॥
तेच वृषभाः किं कुर्वन्ति? इत्याह[भा.२९०३] वसभा सीहेसु मिगेसु चेव थामावहारविजढा उ ।
जो जत्थ होइ असहू, तस्स तह उवग्गह कुणंति ।। वृ-वृषभाः ‘स्थामापहारविमुक्ताः' अनिगृहितबल-वीर्यासन्तोमृगेषुसिंहेषुवायो यत्र येषां मध्ये असहिष्णुर्भवति तस्य तथोपग्रहं कुर्वन्ति ॥कथम्? इत्याह[भा.२९०४] भत्ते पाने विस्सामणेय उवगरण-देहवहणे य।
थामावहारविजढा, तिन्नि वि उवगिण्हए क्सभा॥ वृ-मृगाणां सिंहानांवृषभाणांचमध्ये यः क्षुधातॊ भवति तस्यभक्तंप्रयच्छन्ति, पिपासितस्य पानकं ददति, परिश्रान्तस्य विश्राममां कुर्वन्ति । य उपकरणं देहं वा वोढुं न शक्नोति तस्य तयोर्वहनं कुर्वन्ति । एवं स्थामापहारविमुक्ता वृषभाः 'त्रीनपि' मृग-सिंह-वृषभानुपगृह्णन्ति ।। [भा.२९०५] जो सो उवगरणगणो, पविसंताणं अनागयं भणिओ।
सट्टाणे सहाणे, तस्सुवओगो इहं कमसो॥ वृ- अध्वनि प्रविशतां योऽसौ तलिकादिरुपकरणगणोऽनागतं ग्रहीतव्यो भणितः तस्येह स्वस्थाने स्वस्थाने अचक्षुर्विषय स्वादावुपस्थिते 'क्रमशः' क्रमेणोपयोगः कर्तव्यः, येन यदा प्रयोजनं भवति तत् तदा तत्र प्रयोक्तव्यमिति भावः।
जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org