________________
१८६
बृहत्कल्प-छेदसूत्रम् -२-१/४२
अथाध्वनि गच्छतामेव भक्तपानालाभे विधिमाह[भा.२९०६] असई य गम्ममाणे, पडिसत्थे तेण-सुनगामे वा।
रुक्खाईण पलोयण, असई नंदी दुविह दव्वे ॥ वृ-तत्राध्वनि गम्यमाने भक्तपानस्य 'असति' अलाभे प्रतिसाथै वास्तेनपल्लयां वा शून्यग्रामे वा भक्तपानादि गवेषयन्ति, वृक्षादीनां वा प्रलम्बादिनिमित्तं प्रलोकनं कर्त्तव्यम् । सर्वथा वा संस्तरणस्यासति द्विविध-परीत्तानन्तादिभेदाद्विप्रकारं यद्रव्यंतेनयथा 'नन्दि' तपःसंयमयोगानां स्फातिर्भवति तथा विधेयमिति नियुक्तिगाथासमासार्थः॥ अथैनामेव विवरीषुराह[भा.२९०७] भत्तेन व पानेन व, निमंतएऽनुग्गए व अत्थमिए।
आइच्चो उदित्तिय गहणं गीयत्थसंविग्गे॥ वृ-अध्वानं गच्छतां यदि कोऽपि प्रतिसार्थो मिलितः, तत्र च केचि दानरुचयो भक्तेन का पानेन वा रात्रावनुद्गते वाऽस्तमितेवा सूर्ये निमन्त्रयेयुः ततोयदि सर्वेऽपिगीतार्थासत्दा गृह्णन्ति; अथागीतार्थमिश्रास्ततो गीतार्था ब्रुवते-गच्छत यूयम्, वयमुदित एवादित्ये भक्तपानं गृहीत्वा पश्चादागमिष्याम इति । ततः प्रस्थितेषु मृगेषु गीतास्तत्क्षणमेव गृहीत्वा सार्थमनुगच्छन्ति । स्थिते सार्थे मृगाणां शृण्वतामालोचयन्ति-आदित्य उदित इति मत्वा वयं ग्रहणं कृत्वा समागताः। एवंविधां यतनां गीतार्थ संविग्नः करोति ।। अथ किमर्थं गीतार्थसंविग्नग्रहणम् ? इत्याह[भा.२९०८] गीयत्थग्गहणेणं, सामाए गिण्हए भवे गीओ।
संविग्गग्गहणेणं, तंगेण्हंतो विसंविग्गो॥ वृ-गीतार्थग्रहणेनेदमावेदितम्-योगीतार्थोभवतिसएव 'श्यामायां रात्रौ गृह्णाति नागीतार्थः। संविग्नग्रहणेनतुतद् रात्रिभक्तंगृह्णन्नप्यसौ संविग्न एव, यथोक्तयतनाकारित्वेन मोक्षाभिलाष्येव मन्तव्य इत्युक्तं भवति ।। गतं प्रतिसार्थद्वारम् । अथ स्तेनपल्लीद्वारम्-तस्यां चपिशितं सम्भवति तत्रायं विधिः[भा.२९०९] बेइंदियमाईणं, संथरणे चउलहू उ सविसेसा ।
तेचेव असंथरणे, विविरीय सभाव साहारे॥ वृ-यदि 'संस्तरणे' इतरभक्तपाननिवहि सतिद्वीन्द्रियादीनांपुद्गलं गृह्णन्ति तदा चतुर्लघवः 'सविशेषाः' तपः-कालविशेषिताः। तद्यथा-द्वीन्द्रियपुद्गलं गृह्णातिचत्वारो लघवस्तपसाकालेन चलघुकाः, त्रीन्द्रियपुद्गलेतएव कालेन गुरुकाः तपसा लघुकाः, चतुरिन्द्रियपुद्गले तपोगुरुकाः काललघुकाः, पञ्चेन्द्रियपुद्गले द्वाभ्यामपि तपः-कालाभ्यां गुरुकाः । अथासंस्तरणं भवति ततो यदि द्वीन्द्रियादिक्रममुल्लङ्ग्य 'विपरीतम्' उत्क्रमेण गृह्णाति ततस्त एव चत्वारो लघवः । अथापवादस्याप्यपवाद उच्यते-द्वीन्द्रियादीनांपुद्गलमधिकतरेन्द्रियपुद्गलादल्पतरबलंततो यत् स्वभावेनैव साधारणं तद् गृह्णन्ति ।। [भा.२९१०] जत्थ विसेसं जाणंति तत्थ लिंगेण चउलहू पिसिए।
अन्नाएण उगहणं, सत्थम्मि विहोइ एसेव ॥ वृ-यत्र ग्रामे विशेषं जानन्ति यथा “साधवः पिशितं न भुञ्जते' तत्र यदि स्वलिङ्गेन पिशितं गृह्णन्ति तदा चतुर्लघवः ।अतोऽज्ञातेनैवतत्र ग्रहणंकार्यम्, परलिङ्गेनेत्यर्थः । स्तेनपल्लयादीनामभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org