________________
उद्देशक : १, मूलं- ४२ [भा. २९१०]
सार्थेऽपि पुद्गलग्रहणे एष एव क्रमो विज्ञेयः ॥ अथ शून्यग्रामद्वारमाह[भा. २९११] अद्धाणासंथरणे, सुन्ने दव्वम्मि कप्पई गहणं । लहुओ लहुया गुरुगा, जहन्नए मज्झिमुक्कोसे ॥
वृ- अध्वप्रतिपन्नानामसंस्तरणे जाते 'शून्यग्रामे' तं सार्थमायान्तं दृष्ट्वा 'चौरसेना समागच्छति' इति शङ्कयोद्वसिते ग्रामे जघन्यमध्यमोत्कृष्टभेदभिन्नस्य 'द्रव्यस्य' आहारादेर्ग्रहणं कर्त्तुं कल्पते । अत्र “दव्वम्मि’”त्ति षष्ठयर्थे सप्तमी । अथ संस्तरणे गृह्णाति तत इदमोघतः प्रायश्चित्तम्- जघन्ये मासलघु, मध्यमे चत्वारो लघवः, उत्कृष्टे चत्वारो गुरवः ॥। आह जघन्यमध्यमोत्कृष्टान्येव वयं न जानीमः अतो निरूप्यतामेतत्स्वरूपम्, उच्यते
[भा. २९१२]
उक्कोसं विगईओ, मज्झिमगं होइ क्रूरमाईणि । दोसीणाइ जहन्नं, गिण्हंते आयरियमादी ॥
वृ- उत्कृष्टं द्रव्यं 'विकृतयः' दधि- दुग्ध-घृतादयः, मध्यमं द्रव्यं कूर-कुसणादीनि, जघन्यं द्रव्यं दोषान्नादि । एतानि गृह्णतामाचार्यादीनामाज्ञादयो दोषाः ॥ अथ पुरुषविभागेन प्रायश्चित्तमाह[भा. २९१३] अद्धा संथरणे, सुन्ने गामम्मि जो उ गिण्हेज्जा ।
छेदादी आरोवण, नायव्वा जाव मासलहू ॥
वृ-अध्वनि संस्तरणे शून्यग्रामे विकृत्यादि द्रव्यं यो गृह्णीयात् तस्य च्छेदमादौ कृत्वा मासलघुकं यावदारोपणा ज्ञातव्या ॥ इदमेव स्फुटतरमाह
[भा. २९१४] छेदो चग्गुरु छल्लहु, चउगुरु चउलहु य गुरु लहू मासो । आयरिय वसभ भिक्खू, उक्कोसे मज्झिम जहन्ने ॥
१८७
वृ- आचार्यस्य विकृत्यादिकमुत्कृष्टद्रव्यं शून्यग्रामेऽन्तर्द्दष्टं गृह्णतश्छेदः, अन्तरेवाद्दष्टं गृह्णतः षड्गुरुकाः, बहिष्टे षड्गुरुकाः, बहिरद्दष्टे षड्लघुकाः; 'मध्यमम्' ओदनादिद्रव्यमन्तर्द्दष्टं गृह्णतः षड्गुरुकाः, अदृष्टे षड्लघुकाः, बहिर्दृष्टे षड्लघुकाः, अध्ष्टे चतुर्गुरवः; जघन्यं दोषान्नादिकमन्तर्दृष्टं गृह्णतः षड्लघुकाः, अद्दष्टे चतुर्गुरवः, बहिध्ष्टे चतुर्गुरवः, अध्ष्टेचतुर्लघुकाः एवमाचार्यस्योक्तम्। वृषभस्यानयैव चारणिकया षड्गुरुकादारब्धं मासगुरुके, भिक्षोस्तु षड्लघुकादारब्धं मासलघुके तिष्ठति । यत एवमतः संस्तरणे न ग्रहीतव्यम् ॥ असंस्तरणे गृह्णतां यतनामाह
[भा. २९१५] विलओलए व जायइ, अहवा कडवालए अणुन्नव । इयरेण व सत्यभया, अन्नभया वुट्ठिते कोट्टे ॥
वृ- ‘“विलओलग’त्ति देशीपदत्वाद् लुण्टाकाः, यैः स ग्रामो मुषित इत्यर्थः, तान् वा तत्र शून्यग्रामे विकृत्यादिद्रव्यं याचते । अथवा कटपालकाः- ये तत्र वृद्धादयोऽजङ्गमा गृहपालकाः स्थिता न नष्टास्ताननुज्ञापयेत् । "इयरेण व "त्ति स्वलिङ्गेनालभ्यमाने 'इतरेण' परलिङ्गेनापि गृह्णन्ति । तथा कोट्टं नाम-यदटव्यां चतुर्वर्णजनपदमिश्रं भिल्लदुर्गं वसति तस्मिन्नपि सार्थभयाद्वा ‘अन्यभयाद्वा’ परचक्रागमादिलक्षणाद् 'उत्थिते' उद्वसीभूते सति जघन्यादिद्रव्यस्य ग्रहणं कल्पते ॥
तत्रेयं यतना[भा. २९१६]
Jain Education International
उढसेस बाहिं, अंतोवी पंत गिण्हमद्दिनं । बहि अंत तओ दिट्टं, एवं मज्झे तदुक्कोसे ॥
For Private & Personal Use Only
www.jainelibrary.org