SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उद्देशक :२, मूलं-७५, भा.३६५२] ३४१ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३६५३] दव्वे छिन्नमछिन्नं, न कप्पती कप्पए य इति वुत्तं । इदमन्नं पुन भावे, अव्वोच्छिन्नम्मि पडिसिद्धं ।। वृ-द्रव्यतः 'छिन्नं विभक्तं सद् अंशिकाद्रव्यं कल्पते, तदेव 'अच्छिन्नं' 'अविभक्तं न कल्पते इति प्रोक्तम् । इदं पुनरन्यद् अस्मिन् सूत्रे सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्धम्, न कल्पते इत्यर्थः ॥ [भा.३६५४] अविसेसिओ व पिंडो, हेडिमसुत्तेसु एसमक्खातो। इह पुन तस्स विभागो, सो पुन उवकरण भत्ते वा ॥ वृ-अथवा अधस्तनसूत्रेषु ‘अविशेषितः' विभागरहितः ‘एषः' सागारिकपिण्ड आख्यातः। 'इह पुनः' प्रस्तुतसूत्रे ‘तस्य' सागारिकपिण्डस्य विभाग उच्यते । कथम् ? इत्याह-‘स पुनः' पिण्ड उपकरणं वा भवेद् भक्तं वा इति ॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-सागारिकस्य ये पूज्याः-स्वामि-कलाचार्यादयस्तदर्थं भक्तम्-अशनादि पूज्यभक्तम्, तच्चोद्देशः-सङ्कल्पस्तेन निवृत्तमौद्देशिकम्, तानेव पूज्यानुद्दिश्य कृतमित्यर्थः । ततस्तेषामेव प्राभृतिकायां 'चेतितं' ढौकनीकृतम्, उपनीतमिति भावः । तथा सागारिकस्य उपकरणजातं-वस्त्र-कम्बलादिकं पूज्यानामर्थाय 'निष्ठितं' निष्पादितम्, ततः 'निसृष्टं पूज्येभ्यः प्रदत्तम् । तच्च' भक्तमुपकरणं वा तेभ्यः प्रातिहारिकं दत्तम्, भुक्तावशेषं सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः । तद् एवंप्रकारं संयतानां सागारिको वा दद्यात् सागारिकस्य परिजनो वा दद्यात् किं कल्पते ? न वा? इत्याह- ‘तस्मात् पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिकाद्दद्यात् परंन कल्पतेप्रतिग्रहीतुमिति सूत्रार्थः ॥ अथ भाष्यम्- [भा.३६५५] संबंधी सामि गुरू पासंडी वा वि तं समुद्दिस्स । . पूया उक्खित्तं ति य, पट्टगमत्तं च एगट्ठा । वृ-सागारिकस्यैव यः ‘सम्बन्धी' पितृव्य-मातुलादिर्योवा तस्य स्वामी प्रभुः गुरुर्वा' कलाचार्य यस्य वा पापण्डिनो भक्तैः स पूज्य उच्यते तं समुद्दिश्य कृतं पूज्यभक्तमुच्यते । “तत्त्व-भेदपर्यायैव्यार्खया" इति वचनादेकार्थिकान्याह-पूज्यभक्तम् उत्क्षिप्तभक्तं पट्टकभक्तम्, एतान्येकार्थानि पदानि ॥ [भा.३६५६] चेइयकडमेगटुं, पाहुडिय पहेणगं च एगट्ठा। उवगरणं वत्थादी, जाव विभागो व जोग्गं वा ।। वृ-चेतितं कृतं चेत्येकार्थम् । प्राभृतिका प्रहेणकमिति च एकार्थे । उपकरणं वस्त्रादिकम् । वस्त्रं चेह क्षौमिकं गृह्यते, तच्च परिधानं पावरणं वा पूज्यानां दातव्यम्, आदिग्रहणात् पाषण्डिनः प्रतिग्रहो वा कम्बलं वा एकादशप्रतिमां प्रतिपित्सोर्वा रजोहरणं दातव्यम्, एवमादिको यावान् विभागोऽत्र घटते यद् वा यस्योपकरणं योग्यं तद् वक्तव्यम् ।। [भा.३६५७] निट्ठिय कडं च उक्कोसकं च दिन्नं तु जाणसु निसटुं । - भुत्तुव्वरियं पडिहारियं तु इयरं पुनो चत्तं ॥ कृ-निष्ठितंकृतमित्येकोऽर्थः । यद्वा यद् उत्कृष्टं वस्त्रादित निष्ठां प्राप्तमिति कृत्वा निष्ठितमुच्यते। Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy