SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० बृहत्कल्प-छेदसूत्रम् -२-२/७४ वृ-यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात् । तच्च द्विधा-इक्षुयन्त्रं तिलयन्त्रं च । तत्रेक्षुयन्त्रे कोल्हुकाख्ये रसो गुडो वा भवेत् । तिलयन्त्रं तु चक्रमुच्यते, तत्र तैलं तिलाऽतसीसर्पपादीनां भवेत् । 'तेषु वा' रसादिषु विक्रीयमाणेषु 'यत् तु' तन्दुल-घृतवस्त्रादिकमापतितम्, अथवा यन्त्रस्य प्रवर्तने-प्रथमप्रारम्भे 'अन्ते वा परिसमाप्तौ यत् ते सम्भूय 'प्रकृतं' प्रकरणं कुर्वन्ति, एषा यन्त्रविषया अंशिका ।। अथ भोज्य-क्षीरद्वारे व्याख्यानयति[भा.३६४९] गण-गोहिमादि भोज्जा, भुत्तुवरियं व तत्थ जं किंचि । भाउगमादीन पओ, अविभत्तं जं व गोवेणं॥ वृ-गणः-मल्लादिगणरूपः गोष्ठी-महत्तरादिपुरुषपञ्चकरिगृहीता तयोः, आदिशब्दादन्यस्यापि महाजनस्य साधारणानि यानि भोज्यानि-सङ्खडयः यद् वा किञ्चिद् मोदकचूरिप्रभृतिकं तत्र मुक्तोद्वरितं द्रव्यम्, एषा भोज्यविषया सागारिकांशिका । तथा सागारिकसम्बन्धिनां भ्रातृभ्रातृव्यादीनां पयः' दुग्धं यावदद्यापि सागारिकेण सहाविभक्तम्, यद् वा दुग्धं वृत्तिच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभक्तम्, एषा क्षीरविषया सागारिकांशिका ॥ मालाकारद्वारमाह[भा.३६५०] पुप्फपणिण आरामिगाण पडियं न जाव उ विरिक्कं । पक्खेवगादि समुहं, अचियत्तादी य पुव्वुत्ता । वृ-पुष्पाणां पणितेन-विक्रयेण यद् ‘आरामिकाणां' मालिकानां घृतादिकं पतितं तद् आरामस्वामिना सागारिकेण यावदद्यापि न विरक्तं विभक्तं तावदेषाऽपि सागारिकांशिका। अथ च क्षेत्रादिषु मालाकारान्तेषु द्वारेषु यदि सागारिकस्य सम्मुख पश्यतस्तदीयायामशिकायामविभक्तायां साधवो भक्तादिकं गृह्णन्ति तदा भद्रककृताः प्रक्षेपकादयः प्रान्तकृताः पुनरप्रीतिकादयः पूर्वोक्ता दोषा मन्तव्याः ॥ मालाकारद्वारं प्रकारान्तरेणाह[भा.३६५१] अहवा विमालकारस्स अंसियं अवनयंति भुजेसु। सोय सगारो तेसिं, तं पिन इच्छंति अविभत्तं ॥ वृ-अथवा मालाकारस्य पुष्पावचयनादिनिर्विष्टामंशिकां भोज्येषु' शालि-दाल्यादिषु यावत् तस्य आभाव्यं तावन्मात्रामगारिणः प्रागेवापयन्ति, सच मालाकारः ‘तेषां' साधूनां सागारिकः, अतो यावदसौ मालाकारांशिका अविभक्ता तावत् तामपि ग्रहीतुं नेच्छन्ति ।। द्वितीयपदमाह[भा.३६५२] गेलनमाईसु उ कारणेसू, माऽदिप्पसंगो न य सव्वे गीता। गिण्हंति पुंजा अविरेडियातो, तस्सऽनतो वा वि विरेडियाओ॥ वृ- ग्लानत्वा-ऽवमौदर्यादिषु कारणेषु संस्तरणाभावे ‘मा प्रथमत एव शय्यातरपिण्डग्रहणेऽतिप्रसङ्गो भवतु' इति कृत्वा, न च ते सर्वेऽपि गीतार्था अतः प्रथमम् ‘अविरिक्ताद्' अन्यैः समं साधारणात् पुजात्, ततः ‘अन्यस्मादपि' विरिक्तात् 'तस्य' सागारिकस्य सत्कात् पुञ्जाद् गृह्णन्ति॥ मू. (७५) सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए, सागारियस्स उवगरणजाए निहिए निसट्टे पाडिहारिए, तं सागारिओ देइ सागारियस्स परिजणो देइ, तम्हा दावए नो से कप्पइ पडिगाहित्तए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy