________________
उद्देशक ः २, मूलं-७४, [भा. ३६४३]
३३९ - पत्तेगं वा भणितो, इयाणि साहारणं भणिमो॥ वृ-आहृतिका-निर्हतिकापिण्डवदंशिकापिण्डोऽपि सागारिकेण छिन्नममत्वः' 'ममायम्' इति भावानिवर्तितः कल्पते, अच्छिन्नममत्वस्तुन कल्पते।अथैषः 'योगः' सम्बन्धः । यद्वा प्रत्येकम्' एकस्यैव सागारिकस्य सत्कंपिण्डमाश्रित्य विधिर्भणितः । इदानीं तु सागारिकस्यान्येषांच साधारणं पिण्डमधिकृत्य विधिं भणामः॥अनेन सम्बन्धेनायातस्यास्य व्याख्याःसागारिकस्य या अंशिका तस्याअन्येषामंशिकाभ्योऽविभक्तायाअव्यवच्छिन्नाया अव्याकृतायाअनिगूढाया मध्यात्कश्चिद् भक्त-पानं दद्यात्, नो “से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्यांशिका विभक्ता व्यवच्छिन्ना व्याकृता निगूढा च यस्माद् राशेर्भवति तस्माद् दद्यात्, एवं "से" तस्य कल्पते प्रतिग्रहीतुमिति सूत्रस पार्थ ॥ अथ नियुक्तिविस्तरः[भा.३६४] सागारियस्स अंसिय, अविभत्ता खेत-जंत-भोज्जेसु ।
खीरे मालाकारे, सगारादिद्वं परिहरंति ॥ वृ-सागारिकस्यांशिका अविभक्ता न कल्पते । सा च क्षेत्रे वा यन्त्रे वा भोज्येषु वा क्षीरे वा मालाकारे वा सम्भवति । अत्र च सागारिकद्दष्टं सर्वत्रापि परिहरन्तीति नियुक्तिगाथासमासार्थः।।
अथैनामेव विवरीषुः सूत्रस्य विषमपदानि तावद् विवृणोति[भा.३६४५] अंसो ति व भागो ति व, एगट्ठा पुंज एव अविभत्ता।
कतभागो विन सव्वो, वोच्छिजति सा अवोच्छिन्ना ॥ वृ-अंश इति वा भाग इति वा एकार्थे पदे । अंश एवांशिका, स्वार्थे कः प्रत्ययः । तत्र यावान् सागारिकादीनां साधारणश्चोल्लक उपस्कृतस्तावानद्याप्यखण्डः पुञ्ज एव यदाऽऽस्ते न भागादिविवक्षा कृता सा अंशिका अविभक्तेत्युच्यते । यत्र तु भागाः कृताः परं मूलराशिः कृतभागोऽपि न सर्वो व्यवच्छिद्यते सा अव्यवच्छिन्ना ॥ [भा.३६४६] अब्बोगडा उ तुझं, ममं तु वा जा न ताव निदिसति ।
तत्येव अच्छमाणी, होति अनिहिया अंसी॥ वृ-सर्वेषामपि समा भागाः स्थापिताः परम् ‘एष भागस्तव, एष पुनर्मम इत्येवं या न तावद् निर्दिशति साऽव्याकृताऽभिधीयते । या तुनिर्दिष्टा परमद्यापिन ततोऽन्यत्र नीयते सा अंशिका तत्रैव तिष्ठन्ती अनिगूढा भवति । एवंविधा न कल्पते प्रतिग्रहीतुमिति॥अथ क्षेत्रद्वारं व्याचष्टे[भा.३६४७]सीताइ जन्नो पहुगादिगावा, जे कप्पणिज्जा जतिणो भवंति ।
साली-फलादीण व निक्कयम्मि, पडेज तेल्लं लवणं गुलो वा ॥ वृ-सागारिकस्यान्येषां च साधारणे क्षेत्रे 'सीतायाः' हलपद्धतिदेवतायाः ‘यज्ञः' पूजा भवेत् तत्र साल्यादिद्रव्यं यद् उपस्कृतम्, पृथुकादयो वा ये तत्र क्षेत्रे यतीनां कल्पनीया भवन्ति, यद् वा तत्र शालीनां-कलमादीनां फलानां-चिर्भटादीनाम् आदिशब्दाद् योवारिप्रभृतीनां धान्यानां विक्रीयमाणानां निष्कये तैलं वालवणं वा गुडो वा पतेत्, एषा सर्वाऽपि क्षेत्रविषया सागारिकांशिका ।। यन्त्रद्वारमाह[भा.३६४८] जते रस गुलो वा, तेल्लं चक्कम्मि तेसु वा जंतू।
विक्केजते पडितं, पवत्तणंते य पगयं वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org