SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-८८, [भा. ३९८४] ४०७ स्थविरकल्पिकेनत्रयः कल्पा नियमाद्ग्रहीतव्याः। यद्यपि शीतपरीषहसहिष्णुतयाकश्चिदेकेनापि कल्पेनाप्रावृतः संस्तरति तथापि भागवतीमाज्ञामनुवर्तमानः सोऽपि त्रीन् कल्पान् गृह्णाति ॥ किमर्थं पुनरीशी भगवतामाज्ञा? इति उच्यते[भा.३९८५] अप्पा असंथरंतो, निवारिओ होइ तीहि वत्थेहिं । गिण्हति गुरुविदिन्ने, पगासपडिलेहणे सत्त॥ वृ- 'आत्मा' शरीरं स शीतादिना 'असंस्तरन् त्रिभिर्वस्त्रर्निवारितो भवति । तथा चात्र विशेषचूर्णिलिखितो भावार्थ- उस्सग्गेणं न चेव पाउरियव्वं । जाहे न संथरइ ताहे एकंपाउणइ । जाहे तेन विन संथरेज्जा ताहे बिइयं पि उन्नियं पाउणेयं पाउणेजा । जाहे तेन विन संथरेज्जा ताहे तइयं पि पाउणिज्जा । जइ नाम तह विन संथरेज्जा ताहे तिन्नि वि छड्डेऊण बाहिं पडिमाए ठाइ, ताव अच्छइ जाव सीएणं नीसटुं द्रावितो, पच्छा तम्मि चेव निवेसइ । जइ तत्थ न संथरेजा ताहे अंतो पडिमंठाइ, तत्थ झाणोवगओ चिट्ठइ।जइन संथरइ ताहे बिइयं, ततो तइयं, तत्थ से अईव सायं भवइ । एवं अप्पा तिहिं वत्थेहिं निवारिओ हवइति । अथ तानि परिजीर्णानि ततो न त्रिभिः शीतं निवारयितुं पार्यते तत आह-गुरुभिः- आचार्यैर्वितीर्णानि 'प्रकाशप्रत्युपेक्षणानि' जीर्णत्वादचौरहरणीयानि सप्त वस्त्रण्युत्कर्षतो गृह्णाति इदमेव स्पष्टयति[भा.३९८६] तिन्नि कसिणे जहन्ने, पंच य दढदुब्बलाइंगेण्हेजा। सत्त य परिजुन्ना, एयं उक्कोसगं गहणं ॥ वृ-कृत्स्नानि नाम-घनमसृणानि यैरन्तरितः सवितान:श्यते ईशानि त्रीणिवस्त्रणिजघन्यतो गृह्णीयात्, यानि तु दृढदुर्बलानि तानि पञ्च गृह्णीयात्, यानि परिजीर्णानि तानि सप्त । एतदुत्कृष्टं ग्रहणं मन्तव्यम् ।। कीदृशं पुनरुपधि भिक्षुर्धारयति? इत्याह[भा.३९८७] भिन्नं गणनाजुत्तं, पमाण इंगाल-धूमपरिसद्धं । उवहिं धारए भिक्खू, जो गणचिंत्तं न चिंतेइ ॥ वृ-'भिन्नं नाम' सदशं सकलं वा यन्नभवति, 'गणनायुक्तं' गणनाप्रमाणोपेतम्, प्रमाणेन चयथोक्तदैy-विस्तरविषयमानेन युक्तमित्यनुवर्तुते, तथा अङ्गार-धूमाभ्यां राग-द्वेषपरिणामाभ्यां परि-समन्तात् शुद्धं-विरहितम्, एवंविधमुपधिं स भिक्षुर्धारयेत्, यो गणचिन्तां न चिन्तयति, सामान्यसाधुरिति भावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतमुपधिप्रमाणम् ॥ तथा चाह[भा.३९८८] गणचिंतगस्स एत्तो, उक्कोसो मज्झिमो जहन्नो य । सव्वो वि होई उवही, उवग्गहकरो महानस्स ।। वृ-गणचिन्तकः-गणावच्छेदिकादिस्तस्य सत्तायामतऊर्द्धउत्कृष्टोमध्यमोजघन्यश्च सर्वोऽपि' औधिक-औपग्रहिकश्चोपधिर्महाजनस्योपग्रहकरो भवति ।। इदमेव भावयति[भा.३९८९] आलंबने विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि । सव्वो वि होइ उवही, उव्वग्गहकरो महानस्स। वृ-आलम्बनं द्विधा-द्रव्यतोगर्तादौ निमज्जतोरजवादि, भावतः संसारगर्तायांनिपततांज्ञानादि। इह पुनर्यत्र क्षेत्रे काले वा दुर्लगं वस्त्र तदादिकमालम्बनं गृह्यते, तत्र 'विशुद्धे' प्रशस्ते सति द्विगुणो वा त्रिगुणो वा चतुर्गुणो वा औधिक औपग्रहिकश्चोपधि सर्वोऽपि ‘महाजनस्य' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy