________________
४०६
बृहत्कल्प-छेदसूत्रम् -२-३/८८
[भा.३९७९] उन्नियं उट्टियं चेव, कंबलं पायपुंछणं ।
रयणीपमामित्तं, कुजा पोरपरिग्गहं ।। वृ-'और्णिकम्' ऊर्णामयं औष्ट्रिकं वा' उष्ट्ररोममयं यत् कम्बलं तत् ‘पादप्रोञ्छनं रजोहरणं कर्तव्यम् । 'रलिप्रमाणमात्रं’ हस्तप्रमाणायामदण्डकं 'पर्वपरिग्रहम्' अङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिरपूरकम्एवंविधंरजोहरणंकुर्यात् ॥औपग्रहिकोपधिविशेषभूतानांसंस्तारकादीनांप्रमाणमाह- [भा.३९८०] संथारुत्तरपट्टा, अड्डाइज्जा उ आयया हत्थे।
तेसिं विक्खंभो पुन, हत्यं चतुरंगुलं चेव ।। वृ-संस्तारकोत्तरपट्टकावर्धतृतीयान् हस्तान् ‘आयतौ दीर्धीभवतः,तयोः 'विष्कम्मः' विस्तारः पुनरेकं हस्तं चतुरङ्गुलं च भवति, चतुर्भिरङ्गुलैरधिको हस्त इत्यर्थः॥. [भा.३९८१] दुगुणो चतुग्गुणो वा, हत्यो चतुरंसो चोलपट्टो उ ।
एगगुणा उनिसेज्जा, हत्थपमाणा सपच्छाया॥ वृ-द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्त्र भवति तथा चोलपट्टकः कर्त्तव्यः। तत्र द्विगुणः स्थविराणाम्, चतुर्गुणस्तरुणानाम्।तथारजोहरणपट्टस्यौर्णिकी निषद्या एकगुणा' गुणनया एकत्वसङ्ख्यायुक्ता प्रमाणेन च हस्तप्रमाणा ‘सप्रच्छादका' तावप्रमाणयैव सौत्रिकया प्रच्छादकनिषद्यया सहिता भवति ॥मुखवस्त्रिकाप्रमाणमाह[भा.३९८२] चउरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं ।
बितियं पि य प्पमाणं, मुहप्पमाणेण कायव्वं ॥ वृ-'चतुरङ्गुलं' चत्वार्यङ्गुलानि वितस्तिश्चैका एतद् ‘मुखानन्तकस्य' मुखवस्त्रकायाः प्रमाणम्। द्वितीयमप्यत्र प्रमाणं भवति, किम् ? इत्याह-मुखप्रमाणेन मुखानन्तकं कर्तव्यम् । किमुक्तं भवति ? -वसतिं प्रमार्जयन् रजःप्रवेशरक्षणार्थं कोणद्वये गृहीत्वा नासिकां मुखं च प्रच्छाद्य कृकाटिकायां यावता ग्रन्थिं दातुं शक्रोति तावप्रमाणा मुखवस्त्रका कर्तव्या ॥ [भा.३९८३] गोच्छक पडिलेहणिया, पायट्ठवणंच होइ तह चेव।
तिण्हं पिय प्पमाणं, विहत्थि चउरंगुलं चेव ॥ वृ-गोच्छकः पात्रप्रत्युपेक्षणिका पात्रकस्थापनं च तथैवात्र प्रमाणतो निरुपणीयं भवति । कथम् ? इत्याह-'त्रयाणामपि' गोच्छकादीनां प्रमाणं वितस्तिश्चतुरङ्गुलं च भवति, षोडशाङ्गुलप्रमाणानिचतुरस्त्राणित्रीण्यपि भवन्तीतिभावः॥ तदेवमुक्तंपात्र-मात्रकवर्जितानांशेषोपकरणानां प्रमाणम्, पात्र मात्रकयोस्तुवस्त्रधिकारादत्रन क्रियते, पुरस्ताद् विद्यास्यते।इह स्थविरकल्पिकानां त्रयः प्रच्छादका भवन्तीति पूर्वमुक्तं तदिदानीं द्रढ्यन्नाह[भा.३९८४] जो वि तिवत्थ दुवत्थो, एगेन अचेलगो वसंथरइ।
नहु ते खिंसंति परं, सव्वेण वि तिन्नि घेत्तव्वा ॥ वृ-योऽपि साधुः त्रिवस्त्र द्विवस्त्र वा संस्तरति, त्रिभिभ्यिां वा कल्पैरित्यर्थः, सत्रीन् द्वौ वा कल्पान् परिभुङ्क्ताम्, योऽप्येकेन कल्पेन संस्तरति स एकमेव परिभुताम्, यो वा जिनकल्पिकादिरचेलकः संस्तरति स एकमपिकल्पंमा गृह्णातु, परं 'नहि' नैव 'ते' स्वल्पतरवस्त्र अचेलका वा ‘परम्' अन्यमधिकतरवस्त्र खिंसन्ति । कृतः ? इति चेद् उच्यते-सर्वेणापि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only