________________
उद्देशक ः ३, मूलं-८८, [भा. ३९७३]
४०५ वृ-त्रिविधे 'कालच्छेदे' कालविभागे त्रिविधानि पटलकानि पात्रस्य भवन्ति।इदमेव व्याचेष्टग्रीष्म-शिशिर-वर्षासु प्रत्येकमुत्कृष्टानि मध्यमानि जधन्यानि च । तत्र यानि अत्यन्तद्दढानि तान्युत्कृष्टानि, टेढ-दुर्बलानि मध्यमानि, दुर्बलानिजधन्यानि ॥ इदमेव भावयति[भा.३९७४] गिम्हासु तिन्नि पडला, चउरो हेमंते पंच वासासु ।
उक्कोसगा उ एए, एत्तो वोच्छामि मज्झिमए॥ वृ-'ग्रीष्मेषु चतुर्खप्युष्णर्तुमासेषुत्रीणि पडलानि भवन्ति, कालस्यात्यन्तरुक्षतया त्वरितमेव पृथवीरजःप्रभृतीनां परितणतेस्तैः पटलकानां भैदासम्भवात्। चत्वारिपटलकानि हेमन्ते' शीतकाले भवन्ति, कालस्य स्निग्धतया विमर्दैन पृथिवीरजःप्रभृतीनां परिणतेः । पञ्च पटलकानि वर्षासु भवन्ति, कालस्यात्यन्तस्त्रग्धत्वात् । एतान्युत्कृष्टानि मन्तव्यानि । अत ऊर्ध्व मध्यमानि वक्ष्ये ।
प्रतिज्ञातमेवाह[भा.३९७५] गिम्हासु होति चउरो, पंच य हेमंते छच्च वासासु।
मज्झिमगा खलु एए, एत्तो उ जहन्नए वोच्छं॥ वृ-ग्रीष्मेषु चत्वारि पटलकानि, हेमन्ते पञ्च, वर्षासु षट्, मनाग् जीर्णतया प्रभूततराणामेव स्वकार्यसाधनान् । एतानि खलु मध्यमकानि मन्तव्यानि । अत ऊर्ध्व जघन्यानि वक्ष्ये ॥ [भा.३९७६] गिम्हासुपंच पडला, हेमंते छच्च सत्त वासासु ।
तिविहम्मि कालछेए, तिविहा पडला उपायस्स॥ वृ-ग्रीष्मेषुपञ्चपटलकानि, हेमन्ते पट्, वर्षासुसप्त । एतानिजघन्यानि ।एवं त्रिविधे कालच्छेदे त्रिविधानि पटलकानि पात्रस्य भवन्ति ।।उक्तंपटलकानां गणनाप्रमाणम्, अथप्रमाणप्रमाणम्तत्र चविशेषचूर्णि-गच्छनिग्गयाणं चउरंसापडला, जंभाणे मज्झे कए हेट्ठाअट्ठअंगुलाइंलंबंति। गच्छवासीणंजं उग्गाहिए समाणे चउहिं अंगुलेहिं जन्नुएन पावति; अहवा दीहत्तणेण अड्डाइज्जा हत्था, रुंदत्तणेण दिवड्डो हत्थो ॥रजोहरणप्रमाणमाह[भा.३९७७] घनं मूले थिरं मझे, अग्गे मद्दवजुत्तया।
एगंगियं अझुसिरं, पोरायाम तिपासियं ॥ वृ-'मूले हस्तग्रहणप्रदेशे रजोहरणं 'घन' निविडवेष्टितम्, ‘मध्ये' मध्यभागे 'स्थिरं' दृढम्, 'अग्रे' दशिकापर्यन्ते 'मार्दवयुक्तता' दशिका मृदुस्पर्शा विधेया इत्यर्थः । “एकाङ्गिक नाम' तज्जातदशिकंन वा ब्यादिखण्डनिष्पन्नम्, 'अशुषिरं' न रोमबहुलं न वा ग्रन्थिलम्, “पोरायाम" तिपर्वायामंअङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावदपान्तरालंतावप्रमाणायामम्, “तिपासियं" ति त्रिभिर्दवरकवेष्टकैः पाशितं-बद्धम्, एवंविधं रजोहरणं कर्त्तव्यम् । इदमेव स्पष्टतरमाह[भा.३९७८] अप्पोल्लु मिदुपम्हंच, पडिपुन्नं हत्थबूरिमं।
तिपरियल्लमणीसटुं, रयहरणं धारए मुनी॥ वृ. 'अप्पोल्लं' ६ढवेष्टनादशुषिरमशुषिरदण्डं वा, तथा मृदूनि-कोमलानि पक्ष्माणि-दशिकारोमाग्रभागरुपाणि यस्य तद् मृदुपक्ष्मकम्, 'प्रतिपूर्ण' बाह्येन निषद्याद्वयेन युक्तंसद् ‘हस्तपूरिमं' यथा हस्तं पूरयति तथा कर्तव्यमित्यर्थः, 'त्रिपरिवर्त' त्रीन् वारान् वेष्टनीयम् ‘अनिसृष्टं नाम' हस्तप्रमाणादवग्रहादस्फेटितम्, एवंविधं रजोहरणं मुनिर्धारयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org