________________
४०८
बृहत्कल्प-छेदसूत्रम् -२-३/८८
गच्छस्योपग्रहकरो भविष्यतीति कृत्वा गणचिन्तकस्य परिग्रहे भवतीति ॥ गतं प्रमाणद्वारम्, अथातिरिक्त- हीनद्वारमाह[भा. ३९९०]
पेहा-पेहादोसा, भारो अहिकरणमेव अतिरित्ते । एए भवंति दोसा, कज्जविवत्तीय हीनम्मि ॥
वृ- अतिरिक्तमुपधिं यदि प्रत्युपेक्षते तदा सूत्रा - ऽर्थयोर्महान् परिमन्थः, अथ न प्रत्युपेक्षते तत उपधिनिष्पन्नम्, एवं प्रेक्षा - S प्रेक्षयोरुभयोरपि दोषाः । भारश्च महान् मार्गे गच्छतां भवति । अपरिभोग्यस्य चोपधेर्धारणे अधिकरणम् । एतेऽतिरिक्ते दोषा भवन्ति । अथ 'हीनं' यथोक्तप्रमाणाद् न्युनमुपकरणं भवति ततः कार्यस्य विपत्ति, यत् तेन कल्पादिना कार्यं तन्न सिध्यतीति भावः ।। अथ परिकर्मणिद्वाहमाह
[भा.३९९१] परिकम्मणि चउभंगो, कारणे विहि बितिओं कारणे अविहि । निक्कारणम्मि उ विहि, चउत्थो निक्कारणे अविहि ॥
वृ- परिकर्मणायां चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम् - कारणे विधिना परिकर्मणमित्येको भङ्गी, कारणेऽ विधिनेति द्वितीयः, निष्कारणे विधिनेति तृतीयः, निष्कारणेऽविधिनेति चतुर्थः ॥
[ भा. ३९९२] कारणे अणुन विहिना, सुद्धो सेसेसु मासिका तिन्नि । तव कालेसु विसिट्ठा, अंते गुरुगा य दोहिं पि ॥
वृ- कारणे विधिना परिकर्मणमनुज्ञातम्, अत एवायं प्रथमो भङ्गः शुद्धः । 'शेषेषु' त्रिषु भङ्गेषु त्रीणि मासिकानि भवन्ति, नवरं तपः कालयोर्विशिष्टानि-तत्र द्वितीयभङ्गे कालगुरुकम्, तृतीये तपोगुरुकम्, 'अन्त्ये' चतुर्थभङ्गे 'द्वाभ्यामपि ' तपः - कालाभ्यां गुरुकम् । अत्र च गर्गरसीवनादिकम् अविधिपरिकर्मणं मन्तव्यम् । एकसरा द्विसरा ऋषकण्टकाच सीवनिका विधिपरिकर्मणं समनुज्ञातम् ।। विभूषाद्वारमाह
[भा. ३९९३] उदाहडा जे हरियाहडिए, परेहि धोयाइपया उ वत्थे । भूसानिमित्तं खलु ते करिंति, उग्घातिमा वत्थे सवित्थरा उ ॥
वृ- प्रथमोद्देशके हृताहृतिकासूत्रे 'परैः' स्तेनैः कृतानि धौतादिपदानि यानि वस्त्रे उदाहृतानि तानि यद्यात्मनो विभूषानिमित्तं करोति तदा सविस्त राश्चत्वार उद्धातिमा मासा भवन्ति । इयमत्र भावना-विभूषानिमित्तं यद्यात्मीयं वस्त्रं प्रक्षालयति रजति घृष्टं मृष्टं वा करोति पटवासादिना वा वासयति तदा चतुर्लघुकम् । सविस्तरग्रहणाद् धौतादिपदानि कुर्वतो या आत्मविराधना तन्निष्पन्नमपि प्रायश्चित्तम् ॥ किमर्थं पुनर्विभूषामासेवते ? इत्याह
[भा. ३९९४] मलेन घत्थं बहुना उ वत्थं, उज्झाइगो हं चिमिणा भवामि । हं तस्स धोव्वम्मि करेमि तत्तिं वरं न जोगो मलिनान जोगो ।
वृ- इदं मदीयं वस्त्र बहुना मलेन 'ग्रस्तम्' आपूरितम्, अतोऽनेनाहं " उज्झाइओ' विरुपो भवामि । यतश्चाहं विरुप उपलभ्ये ततः 'तस्य' वस्त्रस्य धौतव्ये तप्तिमहं करोमि, येन गोमूत्रादिना शुध्यति तदानयामीत्यर्थः । कुतः ? इत्याह- वरं मे वस्त्रेण सह न योगः, परं मलिनवस्त्रेणं योगो न वरम्, मलिनवस्त्रप्रावरणादप्रावरणमेव श्रेय इति भावः । कारणे तु वस्त्र धावन्नपि शुद्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org