SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४०२ उद्देशक : ३, मूलं-८८, [भा. ३९९४] परः प्राह-ननुवस्त्रघावने विभूषा भवति, साच साधूनां कर्तुंन कल्पते, “विमृसा इत्थिसंसग्गी" इत्यादिवचनात्; सूरिराह[भा.३९९५]कामं विभूजा खलु लोभदोसो, तहा वितं पाउणओ न दोसो। माहीलणिज्जो इमिणा भविस्सं, पुविड्डिमाई इय संजई वि॥ वृ-'कामम्' अनुमतमेतत्, ‘खलुः' अवधारणे, यैषा विभूषासा लोभदोष एव, तथापि तद्' वस्त्रं शुचि भूतं कारणे कृत्वा प्रावृण्वतोनदोषः। कस्य? इत्याह-यःपूर्वराजादिक ऋद्धिमानासीत् सताशीमृद्धिं विहाय प्रव्रजितः सन् चिन्तयति-माऽमुना मलक्लिन्नवाससा अबुधजनस्येहलोकप्रतिबद्धस्य हीलनीयो भविष्यामि, यथा-नूनं केनापि देवादिना शापशप्तोऽयम्, यदेवं ताशी विभूतिं विहाय साम्प्रतमीशीमवस्थां प्राप्तः । आदिशब्दादाचार्यादिरप्येवमेव शुचिभूतं वस्त्रं प्रावृणोति । संयत्यपि ऋद्धिमत्प्रव्रजिता नित्यं पाण्डुरपटप्रावृता तिष्ठति पर्यटति वा ।। शुचिभूतं वस्त्र प्रावृण्वतस्तस्य कथं रागो भवति? इत्याह[भा.३९९६] न तस्स वत्थाइसु कोइ संगो, रज्जं तणं चेव जढं तु तेनं। जो सो उ उज्झाइय वत्थजोगो, तं गारवा सो न चएति मोत्तुं॥ वृ-योऽसौ ऋद्धिमान् प्रव्रजितस्तस्य वस्त्रदिषु 'कोऽपि' स्वल्पोऽपि “सङ्गः' रागो नास्ति, यतः 'तेन' महात्मना राज्यं तृणमिव परित्यक्तम्: यः पुनरसौ “उज्झाइओ" विरुपोऽहममुना मलविलीनेन वाससा इत्येवमभिप्रायेण धौतादिगुणोपेतस्य वस्त्रस्य योगस्तमसौ विभूषाप्रियः संयतः “गारव" त्ति ऋद्धिगौरवान्न मोक्तुं शक्रोति, अतस्तस्य प्रायश्चित्तमुक्तमिति भावः॥ गतं विभूषाद्वारम् । अथ मूर्छाद्वारमाह[भा.३९९७] महद्धने अप्पधने व वत्थे, मुच्छिज्जती जो अविवित्तभावो । . सतं पिनो भुंजति मा हु झिज्झे, वारेति चऽनं कसिणा दुगा दो। कृ'महाधने' माहमूल्ये अल्पधनेवा' अल्पमूल्येवस्त्र यः ‘अविविक्तभावः' विवेकविकलाशयः 'मूर्च्छति' मूर्छा करोति; कथमेतद् ज्ञायते? इत्याह-स्वयमपि तत्प्रधानं वस्त्र न परिभुङ्क्ते ‘मा क्षीयता' मा परिभुज्यमानं सत् परिजीर्यतामिति कृत्वा, 'अन्य' परिभुञानं च वारयति, तस्य प्रायश्चित्तम् ‘कृत्वाः' सम्पूर्णा "दुगा दो" ति चत्वारो मासाः, चतुर्गुरुकमित्यर्थः ।। अथ किमर्थं वस्त्र मूर्छा करोति? इत्याह[भा.३९९८] देसिल्लगं वन्नजुयं मणुन्नं, चिरादनं दाइं सिनेहओ वा। लब्भं च अन्नं पि इमप्पभावा, मुच्छिज्जई ईय भिसं कुसत्तो ।। वृ- “देसिल्लगं" देशविशेषोद्भवम्, 'वर्णयुतं' वर्णाढ्यम्, स्वदेशीयं परदेशीयं वा श्लेक्ष्णं स्थूलं वा यद् मनसो रुच्यते तद् मनोज्ञम्, 'चिरन्तनं नाम' यदाचार्यपरम्परागतम्, “दाई" ति निपातो विकल्पार्थे, येन वा तत्प्रदत्तं तस्योपरि महान् स्नेहः, यद्वाऽमुना वस्त्रेण तिष्ठताऽहमन्यदपि वस्त्रमेततप्रभावादेव लप्स्ये, एवमेभिः कारणैः 'भृशम्' अत्यर्थं 'कुसत्त्वः' तुच्छधृतिबलो मूर्च्छति, मूतिश्च न विवक्षितं वस्त्र परिभुङ्क्ते ॥ उक्तो वस्त्रविषयो विधिः, अथ पात्रविषयं तमेवाभिधित्सुराह[भा.३९९९] दव्वप्पमाणअतिरेगहीनदोसा तहेव अववाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy