________________
४१०
बृहत्कल्प-छेदसूत्रम् -२-३/८८
लक्खणमलक्खणं तिविह उवहि वोच्चत्थ आणादी॥ [भा.४०००] को पोरुसी य कालो, आगर चाउल जहन्न जयणाए।
चोदगअसती असिव, प्पमाण उवओग छेयण मुहे य॥ वृ-द्रव्यमिह-पात्रंतस्य यद् वक्ष्यमाणं प्रमाणं ततोऽतिरिक्ते हीने च पात्रे दोषा वक्तव्याः वा अलक्षणम्? ३। त्रिविधः' उत्कृष्टादिभेदाद्यथाकृतादिभेदाद्वा त्रिप्रकार उपधिर्यथा गृह्यते ।। यथोक्तक्रमाच्च विपर्यस्तेन ग्रहणे प्रायश्चित्तमाज्ञादयश्च दोषाः ५॥ तथा “को" ति कः पात्रं गृह्णाति? ६। “पोरिसि"त्तिबहुबन्धनबद्धं पात्रंधारयतासूत्राऽर्थपौरुष्यौ द्वे अपि हापयित्वाऽपरं पात्रं गवेषणीयम्७ । “कालो" ति तस्य च गवेषणे कियान् कालः? इति ८ ‘आकरः' कुत्रिकापणादियत्रपात्रंगवेष्यमाणंलभ्यते ९।“चाउल" तितन्दुलधावनेन उपलक्षणत्वादुष्णोदकादिना वा भावितं किं कल्पते ? न वा? इति १० । “जहन्न जयण" त्ति जघन्यं पञ्चकप्रायश्चित्तम्, जघन्यानि वा-सर्षपादीनि बीजानि तद्युक्तमपि पात्रं यतनया ग्रहीतव्यम् ११।नोदकः प्रेरयतिकथं बीजभृतमपि पात्रमनुज्ञायते ? १२ । सूरिराह-यदेतद् बीजयुक्तपात्रग्रहणमनुज्ञातं तद् 'असत्तायां' पात्रकस्याभावे, यत्र वा भाजनानि लभ्यन्ते तत्र अपान्तराले वा अशिवम् १३ । “पमाण उवओग छेयण"त्ति यदि प्रमाणयुक्तं पात्रं न लभ्यते तत उपयोगपूर्वकं पात्रस्यच्छेदनं विधाय प्रमाणं विधेयम् १४ । “मुहे" त्ति अल्पपरिकर्म-सपरिकर्मकयोर्मुखकरणं सम्भवति न यथाकृते १५। एवमेतानि द्वाराणि प्ररुपणीयानीति द्वारगाथाद्वयसङ्केपार्थः ।।
साम्प्रतमेतदेव विवरीषुराह[भा.४००१] पमाणातिरेगधरणे, चउरो मासा हवंति उग्घाया।
आगाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-प्रमाणातिरिक्तपात्रकस्य धारणे चत्वारो मासा उद्घातिका भवन्ति, आज्ञादयश्च दोषाः, विराधना व संयमा-ऽऽत्मविषया ।। इदमेव भावयति[भा.४००२] गणनाए पमाणेण य, गणनाए समत्तओ पडिग्गहओ।
पलिमंथ भेरुटुंड्डग, अतिप्पमाणे इमे दोसा॥ वृ-गणनया प्रमामेन च पात्रकस्य प्रमाणं द्विविधम् । तत्र गणनायां समात्रकः' मात्रकसहितः प्रतिग्रहोमन्तव्यः । अथ इतऊर्ध्वतृतीयादिकंपात्रंधारयतिततः परिकर्मण-रङ्गनादौप्रत्युपेक्षणादिषु च महान् परिमन्थो भवति, अध्वनि बहूनि पात्राणि बहमानस्य भारः, बहूपकरणश्च ‘उडुण्डुकः' जनोपहास्यो भवति, अहो ! भारवाहकोऽयमिति । तत्र च ‘अतिप्रमाणे' प्रमाणद्वयातिरिक्ते पात्रे एते दोषाः । तद्यथा[भा.४००३] भारेण वेयणा वा, अभिहणमाई न पेहए दोसा ।
रीयाइ संजमम्मि य, छक्काया भाणभेओ य॥ वृ-प्रभूतपात्रवहने भारेणाक्रान्तस्य वेदना, तयाऽदितो गो-हस्ति-तुरङ्गमादीनमिघातं-प्रहारं प्रयच्छति, न पश्यति, आदिशब्दात् स्थाणु-कण्टकादीनि न प्रेक्षते, एवमात्मविराधनायां दोषाः। संयमविराधनायाम् ईर्यादिकंन शोधयति, ततश्चषट्कायविराधना, अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदध्यात् ।। एते गणनातिरिक्ते दोषा उक्ताः, प्रमाणातिरिक्ते तुपात्रे इमेदोषाः
www.jainelibrary.org
Jain Education International
F
For Private & Personal Use Only