________________
उद्देशकः३, मूलं-८८, [भा. ४००४]
४११
[भा.४००४] भाणऽप्पमाणगहणे, भुंजणे गेलनऽभुंज उज्झिमिगा।
एसणपेलण भेओ, हानि अडते दुविह दोसा॥ वृ. “भाणऽप्पमाण' त्ति अकारप्रश्लेषाद् ‘अप्रमाणस्य' अतिबृहत्तरप्रमाणस्य भाजनस्य, ग्रहणे इमे दोषाः-तदतिबृहत्तरं भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि भुङ्कते ततो ज्वरादिकं ग्लानत्वं भवेत् । अथ न भुङ्क्ते ततः 'उज्झिमिका' परिष्ठापनिका भवति । अतिबृहत्तरं च पात्रं यदा चिरेणापि न पूर्यते तदा एषणाप्रेरणं कृत्वाऽपि बिभृयात् । भरितं चातिभारेण प्रतिस्खल्य भेदमुपगच्छेत् । ततो भाजनेन विना या आत्मनः कार्यपरिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् । गुरुत्वेन चात्म-संयमविराधानालक्षणा द्विविधा दोषाभवन्ति-तत्रात्मविराधनायांपर्यटतोऽतिभारेण कटीस्कन्धादिकं परिताप्येत, संयमविराधनायामीर्यामशोधयन् षट्कायान् विराधयेत् ॥
गतमतिरिक्तद्वारम् । अथ हीनद्वारमाह[भा.४००५] हीनप्पमाणधरणे, चउरो मासा हवंति उग्धाया।
- आणादियो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-यत् प्रतिग्रहस्य मात्रकस्य वा प्रमाणं वक्ष्यते ततो हीनं यदि धारयति तदा चत्वारो मासा उद्धातिमा भवन्ति, एतच्च प्रतिग्रहे मन्तव्यम् । मात्रके तु मासलघु । आह च निशीथचूर्णिकृतेपडिग्गहगे चउलहुं, मत्तगे मासलहुं । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।।
इदमेव भावयति[भा.४००६] ऊनेन न पूरिस्सं, आकंठा तेन गिण्हती उभयं ।
मा लेवकडं ति पुनो, तत्थुवओगो न भूमीए॥ -अनेन प्रमाणहीनेन 'ऊनेन' अभरितेन नाहमात्मानं पूरयिष्ये, तत आकण्ठात्तत्र भाजने 'उभयमपि' कूरं कुसणं च गृह्णाति । ततो मा पात्रबन्धो लेपकृतो भवत्विति कृत्वा 'तत्रैव' पात्रकबन्धखरण्टने उपयोगो भवति, न पुनभूमौ ॥ अनुपयुक्तस्य चेमे दोषाः[भा.४००७] खाणू कंटग विसमे, अभिहणमाई न पेहए दोसे ।
रीया पगलिय तेनग, भायणमेए य छक्काया।। वृ- ईर्यायामनुपयुक्तः स्थाणुना कण्टकेन वा विध्यते, विषमे वा भूभागे निपतेत्, गवादिकृताभिघातादींश्च दोषान् न प्रेक्षते, इयमात्मविराधना।संयमविराधना त्वेवम्-अनुपयुक्त ईर्यां न शोधयते, भाजनाच्च भक्तं पानकं वा परिगलेत, तच्च प्रगलितं विलोक्य स्तेनाः ‘परिपूर्ण भृतमिदं भाजनमस्ति' इति परिभाव्यापहरेयुः । अथ कुत्रापि प्रस्खलितस्ततो भाजनभेदः षट्कायविराधना वा भवेत्॥ [भा.४००८] गुरु पाहुण अम दुब्बल, बाले वुड्डे गिलाण सेहे य ।
लाभाऽऽलाभऽद्धाणे, अनुकंपा लाभवोच्छेदो। कृ-प्रमाणहीनंभाजनंधारयता गुरु-प्राधुणक-क्षपक-दुर्बला बालोवृद्धो ग्लानः शैक्षश्चपरित्यक्ता मन्तव्याः। तथा क्षेत्रप्रत्युपेक्षणार्थंप्रेषितस्तेन लघीयसा भाजनेन कथं लाभा-ऽलाभपरीक्षांकरोतु? छिन्नाध्वनि वा कश्चिद् दानश्रद्धालुरनुकम्पया यद् यदुपस्थाप्यते तत् तद् भाजनं भरति, तत्र गच्छसाधारणं भाजनमुपस्थापयितव्यम् । हीनभाजने पुनरुपस्थाप्यमानेतस्य लाभस्य व्यवच्छेदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org