________________
४१२
बृहत्कल्प-छेदसूत्रम् -२-३/८८ भवति, निर्जरायाश्च लाभो न भवतीति सङ्क्षपहगाथासमासार्थः॥
अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह[भा.४००९] गुरुगा य गुरु-गिलाणे, पाहुण-खमए य चउलहू होति ।
सेहस्स होइ गुरुओ, दुब्बल जुयले य मासलहु॥ वृ-गुरुणां ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः । प्राघुणकस्य क्षपकस्य चोपष्टम्भाकरणे चतुर्लघवो भवन्ति । शैक्षस्यादाने मासगुरुकः। दुर्बलस्य 'युगलस्य च' बाल-वृद्धलक्षणस्यादाने मासलघु ॥ [मा.४०१०] अप्प-परपरिच्चाओ, गुरुमाईणं अदेंत-देंतस्स।
अपरिच्छिए य दोसा, वोच्छेओ निजाराऽलाभे ॥ वृ-लघुतरभाजनगृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः, अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादीनां परेषां परित्यागः कृतो भवति । तथा प्रमाणहीनं भाजनं गृहीत्वा क्षेत्रप्रत्युपेक्षणार्थंगतः कथं लाभा-ऽलाभंपरीक्षताम् ? ततोऽपरीक्षित क्षेत्रेयेदोषास्तेमन्दपरीक्षिते मन्तव्याः । अध्वनि प्रपन्नानां च सङ्खडिर्भवेत्, दानश्राद्धो वा कश्चिदनुकम्पया प्रभूतं भक्त-पानं दद्यात् यद्वा स्वस्थानेऽपि धृतादि साधारणद्रव्यं लभ्येत तत्र लघुतरभाजने भक्त-पान-लाभस्य निर्जरायाश्च व्यवच्छेदो भवति ॥अथ क्षुल्लकभाजनस्यैव दोषान्तराभिधानायाह[भा.४०११] लेवकडे वोसट्टे, सुक्खे लग्गे य कोडिते सिहरे।
एए हवंति दोसा, डहरे भाणे य उड्डाहो ॥ वृ-तक्रादिना तदवमप्रमाणं भाजनमाकण्ठमापूरितं ततो “वोस?" त्ति प्रलुठिते तक्रादौ तद् भाजनंलेपकृतंक्रयते । अथपात्रलेपनभयात् तत्रशुष्कमेव भक्तंगृह्णाति ततस्तद्भक्तंभुञानस्य गलके उदरे वा लगेत्, लग्ने च तत्राजीर्ण भवेत् । “कोडियं" ति गाढचम्पितं चम्प्यमानं वा पात्रकं भज्येत । 'शिखरं वा' पात्रस्योपरि भक्तस्य शिखां कुर्वन्तं दृष्टवा लोको ब्रूयात्-अहो ! असन्तुष्टा बहुभक्षका अमी; एवमुड्डाहो भवेत् । एते डहरे भाजने दोषाः ।। अथैनामेव भावयति[भा.४०१२] धुवणा-ऽधुवणे दोसा, वोसटुंते य काय आउसिणे ।
सुक्खे लग्गाऽजीरग, कोडिय सिहरे य उड्डाहो । वृ- अतिभृतत्वेन तक्र-तीमनादीनी प्रलोठ्यता यत् पात्रकं लेपकृतीकृतं तस्य घावनाऽधावनयोरुभयोरपि दोषाः। तत्र धावने प्लावनादयः, अधावनेतुरात्रिभोजनव्रतभङ्गः । “वोसटुंते य" परिगलति भक्त-पाने षन्नां कायानां विराधना । अथवा तेनोष्णेन परिगलता दिग्धशरीरस्यात्मविराधना।शुष्केच भक्तेऽतिमात्रं भुज्यमाने गलके उदरेवा लग्नेऽजीर्णं भवेत्, तत्र च ग्लानारोपणा।“कोडितं" गाढंचप्पितं सन्तत् पात्रकं भज्येत। 'शिखरेच' भक्तस्योपरि शिखायां विधीयमानायां उड्डाहो भवति । यत एवमादयो दोषास्ततःप्रमाणयुक्तमेव ग्रहीतव्यम्॥ कीशं पुनस्तत् प्रमाणम् ? इत्याशङ्कय प्रमाणमाह[भा.४०१३] तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं ।
- एत्तो हीन जहन्नं, अतिरेगयरंतु उक्कोसं॥ वृ- पात्रस्य परिधिर्दवरकेण भीयते, तत्र च मिते यदा स मानदवरकस्तिस्त्र वितस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org