________________
३३२
बृहत्कल्प-छेदसूत्रम् -२-२/६८ कथम् ? इत्याह[भा.३६१३] पुराण सागं च महत्तरं वा, अन्नं व गोहेंति तहिं च छोढुं ।
सागारिओ वा वि विगोवितो जो, स पिंडमन्नेसु तु संदधाति॥ वृ- 'पुराणं' पश्चात्कृतम्, तदप्राप्तौ प्रतिपन्नाणुव्रतं श्रावकम्, तदभावे यस्तत्र महत्तरस्तम्, 'अन्यं वा' प्रमाणभूतं तत्र' अन्यपिण्डेषु सागारिकपिण्डं प्रक्षेप्तुं 'ग्राहयन्ति' प्रज्ञापयन्तीत्यर्थः । यो वा सागारिकः 'विकोविदः' विशेषेण साधुसामाचारीकुशलः स खकीयं पिण्डमन्येषु पिण्डेषु 'सन्दधाति' मिश्रयतीत्यर्थः ॥ [भा.३६१४]सम्मिस्सियं वा वि अमिस्सियं वा, गिण्हंति गीता इतरेहिं मिस्सं ।
कारेंतऽदिटुं चेऽविगोवितेसू, दिटुं च तप्पञ्चयकारि गीता ॥ वृ-यदि सर्वेऽपि गीतार्थास्ततः सम्मिश्रितं वा अमिश्रितं वा सागारिकपिण्डं गृह्णन्ति । अथ 'इतरैः' अगीतार्थैर्युक्तास्ततः 'मिश्र' संसृष्टं गृह्णन्ति नासंसृष्टम् । अथासंसृष्टं (अथ संसृष्टं) न प्राप्यते अविकोविदाश्च-अगीतास्तत्र सन्ति ततः 'अदृष्टं' यथा ते न पश्यन्ति तथा पुराणादिना संसृष्टं कारयन्ति ।अथाष्टे कार्यमाणे तेषामप्रत्यय उत्पद्यते, यथा-एतैः सागारिकपिण्ड एवासंसृष्टं आनीतः; ततस्तप्रत्ययकारिणो गीतार्थास्तैदृष्टमपि संसृष्टं कारयन्ति ।
अथ “पभुनिक्खंतस्स वा करणं" इति पदं व्याख्यानयति[भा.३६१५]जो उजिओ आसी पभू व पुव्वं, तप्पक्खिओ राय-गणच्चिओ वा ।
सवीरिओ पक्खिवती इमं तु, वोत्तूण किं अच्छइ एस वीसुं॥ वृ-यस्तत्र ग्रामे पूर्वम् ‘ऊर्जितः' बलवान् ‘प्रभुर्वा' अधिपतिरासीत्, 'तत्पाक्षिको वा' तस्य ग्रामस्य हितैषी राज-गणाञ्चितो वा' राजसम्मतो मल्लादिगणसम्मतो वा आसीत्, एवंविधोऽपि यः ‘सवीर्य' शक्तिमान, भाजनभेदादयो दोषा यस्य न भवन्तीति भावः; सः ‘एनं सागारिकपिण्डमन्यपिण्डेषु प्रक्षिपति, परमिदं वचनमुक्त्वा, यथा-किमेषः 'विष्वक्' पृथक् तिष्ठतीति ।
मू. (६९) सागारियस्स आहडिया सागारिएण पडिग्गाहिया, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए।
मू. (७०) सागारियस्स आहडिया सागारिएण अप्पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए॥
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३६१६] नीहडसागारिपिंडस्स विवक्खो आहडो अह उ जोगो ।
नीहडसुत्ते पुनरवि, जोगो संदट्ठओ नाम । वृ- पूर्वसूत्रे निर्हतः सागारिकपिण्ड उक्तः, इह तु तद्विपक्ष आहत उच्यते । ‘अथ' एष प्रस्तुतसूत्रस्य 'योगः' सम्बन्धः । तथा इतः सूत्रादनन्तरं पुनरपि निहतसूत्रं भविष्यति ततोऽयं सूत्रत्रयस्य 'योगः' सम्बन्धः सन्दष्टको नाम मन्तव्यः । किमुक्तं भवति ?-आदौ निर्हतसूत्रम्, मध्ये आहृतसूत्रम्, अवसाने तु भूयोऽपि निहृतसूत्रम् ; एष ईशः सम्बन्धः सशपूर्वापरसूत्रद्वयेन सन्दंशकेनेव गृहीतत्वात् सन्दष्टक इत्यभिधीयते । अनेन वक्ष्यमाणसूत्रस्याप्यत्रैव सम्बन्धोऽभिहित इति॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-'आहृतिका' प्रहेणकं सा सागारिकस्य गृहे कुतोऽपि For Private & Personal Use Only
www.jainelibrary.org
Jain Education International