________________
३७२
बृहत्कल्प-छेदसूत्रम् -२-३/८३ तन्त्रातिरिक्तोपकरणत्वादधिकरणं भवति । निर्लोमन्यपि चर्मणि परिभुज्यमाने त्रसप्राणिनो विराध्यन्ते । सङ्घचति च तस्मिन् ‘करणं' पादकर्म संयती कुर्यात् ।। [भा.३८११]अविदिनोवधि पाना, पडिलेहा वि य न सुज्झति सलोमे ।
वासासु य संसज्जति, पतावमपतावणे दोसा ॥ वृ-तीर्थकरैः अवितीर्ण-अदत्तोऽयं सलोमचर्मलक्षण उपधिः । शुषिरतया च तत्र रोमान्तरेषु प्राणिनः सम्मूर्च्छन्ति, प्रत्युपेक्षणाऽपिच न शुध्यति। वर्षासुच कुन्थु-पनकादिभिस्तत्चर्मसंसज्यते। यदि संसजनभयात्प्रतापयतिततोऽग्निविराधना, अथ न प्रतापयति ततस्त्रसप्राणिनः संसजन्ति, एवमुभयथाऽपि दोषा भवन्ति ॥ [भा.३८१२] आगंतु तदुब्भूया, सत्ताऽशुसिरे वि गिण्हितुं दुक्खं ।
अह उज्झति तो मरणं, सलोम-निल्लोमचम्मेयं ॥ वृ-'आगन्तुकास्तदुद्भूताश्च' कुन्थु-पनकादयः सत्त्वा अशुषिरेऽपि ग्रहीतुंदुःखेन शक्यन्ते किं पुनः शुषिरे सलोमचर्मणि? । ततो यत् तेषां भूयोभूयः सघट्यमानानां परितापनं तन्निष्पन्नं प्रायश्चित्तम्।अथ तदुद्भवान् जन्तूनुज्झति ततस्तेषां मरणं भवेत्। एतत्सलोम चर्माश्रित्योक्तम्। अथ सलोम-निर्लोम्नोरुभयोरपि दोषा उच्यन्ते ॥ [भा.३८१३] भारो भय परितावण, मारण अहिकरणमेव अविदिने ।
तित्थकर-गणहरेहि, सतिकरणं भुत्तभोगीणं ।। वृ-सलोम्ना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयंचोत्पद्यते । कुन्थ-पनकादिजीवानां परितापनमारणंवा भवति । अथैतद्दोषभयात् परित्यजतिततोऽसंयतैर्गृहीतेऽधिकरणम्। तीर्थकरगणधरैश्च अवितीर्ण अदत्तोऽयमुपधि । सलोमनि च परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम्, इतरासां कौतुकमुपजायते ।। कथम् ? इत्याह[भा.३८१४] जइ ता अचेतनम्मि, अयिणे फरिसो उ एरिसो होति ।
किमया सचेतनम्मि, पुरिसे फरिसो उ गमनादी ॥ वृ-यदि तावदचेतने 'अजिने' चर्मणि ईशः स्पर्शो भवति ततः किं पुनः सचेतनस्य पुरुषस्य स्पर्शो भवति ? । एवं विचिन्त्य काचिदार्यिका 'गमनम्' अवधावनं कुर्यात्, आदिशब्दाद् वैहायसमरणं वा प्रतिपद्यते । द्वितीयदमाह[भा.३८१५] बिइयपय कारणम्मिं, चम्मुव्वलणं तु होति निल्लोमं ।
आगाढ कारणम्मिं, चम्म सलोमं पि जतणाए॥ वृ. द्वितीयपदे कारणे चर्मापि गृह्णीयात् । कथम् ? इत्याह-'उद्वलनम्' अभ्यङ्गनं कस्याश्चिदार्यिकायाः कर्तव्यं तदर्थं निर्लोमचर्म गृह्यते। अथागाढं कारणंततः सलोमचर्मणोऽपि यतनया परिभोगः कर्त्तव्य इति ॥ अथैनामेव नियुक्तिगाथां विवृणोति[भा.३८१६]उडम्मि वातम्मि धणुग्गहे वा, अरिसासु सूले व विमोइते वा।
'एगंग-सव्वंगगए व वाते, अब्भंगिता चिट्ठति चम्मऽलोमे ॥ वृ- यस्याः संयत्याः प्राचुर्येणोर्द्धववात उच्छलति, 'धनुर्ग्रहोऽपि' वातविशेषो यः शरीरं कुब्जीकरोति स वा यस्या अजनिष्ट, असि वा सज्जातानि, शूलं वा अभीक्ष्णमुद्धावति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org