SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३७१ उद्देशक : ३, मूलं-८३, [भा. ३८०५] [भा.३८०५] बंभवयपालणट्ठा, अन्नोन्नउवस्सयं न गच्छंति। उवकरणं पि न इच्छति, जहिं पीला तस्स जोगोऽयं॥ वृ-ब्रह्मव्रतपालनार्थं निर्ग्रन्थ्यश्चान्योऽन्योपाश्रयं न गच्छन्ति। अत उपकरणमपि ताशंसाधुः साध्वी वा नेच्छति ग्रहीतुम्, यत्र गृहीते तस्य' ब्रह्मचर्यस्य पीडा भवति । अयं योगः' सम्बन्धः॥ [भा.३८०६] सतिकरणादी दोसा, अन्नोन्नउपस्सगाभिगमनेन । सतिकरण-कोउहल्ला, मा होज्जा सलोमए अहवा ॥ वृ-स्मृतिकरण-कौतुकादयो दोषा अन्योऽन्योपाश्रयाभिगमनेन भवन्ति । अतः सलोभनि चर्मणि गृहीते संयतीनां स्मृतिकरण-कौतूहले मा भूतामिति प्रकृतं सूत्रमारभ्यते । 'अथवा' इत्ययमपरः सम्बन्धः ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुं' निषदनादिना परिभोक्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः[भा.३८०७] चम्मम्मि सलोमम्मि, निग्गंथीणं उवेसमाणीणं। चउगुरुगाऽऽयरियादी, तत्थ वि आणादिणो दोसा ॥ कृसलोमनि चर्मणि निर्ग्रन्थीनामुपविशन्तीनां चतुर्गुरुकाः । अत एवाचार्य एतत् सूत्रप्रवर्त्तिन्या न कथयति चतुर्गुरवः प्रवर्तिनी श्रमणीनां न कथयति चतुर्गुरुकाः, श्रमण्यो न प्रतिशुण्वन्ति मासलघु । तत्रापि' अकथनेऽश्रवणे सलोमचर्मोपवेशने चाज्ञादयो दोषाः॥ अथानन्तरोक्तमेव प्रायश्चित्तं विशेषयन्नाह[भा.३८०८] गहणे चिट्ठ निसीयण, तुयट्टणे य गुरुगा सलोमम्मि । निल्लोमे चउलहुगा, समणीनणारोवणा चम्मे । वृ-सलोमचर्मणो ग्रहणं कुर्वन्ति चतुर्गुरुकाः तपसा कालेन च लघवः । गृहीत्वा तत्र स्थानम् ऊर्ध्वस्थानरुपं कुर्वन्ति चतुर्गुरुकाः तपसा लघवः कालेन गुरवः, निषदनं कुर्वन्ति चतुर्गुरुकाः तपसा गुरवः कालेन लघवः त्वग्वर्तनं कुर्वन्ति तपसा कालेन च गुरवः । निर्लोमचर्मणि तुचतुर्लघुकाः। एवमेव चतुर्तास्थानेषु तपः-कालविशेषिता एषा श्रमणीनां 'चमणि' चर्मविषयाऽऽरोपणा मन्तव्या।। अत्र दोषान् दर्षयति[भा.३८०९] कुंथु-पणगाइ संजमे, कंटग-अहि-विच्छुगाइ आयाए। भारो भयभुत्तियरे, पडिगमणाई सलोमम्मि॥ कृसलोमचर्मणि कुन्थु-पनकादयो वर्षासुसम्पूछेयुः, तेषु स्थान-निषदनादिना विराध्यमानेषु संयमविराधना । कण्टकेन अहिना वृश्चिकादिना वा तत्रोपविष्टाः सुप्ता वा यद् उपघातमाप्नुवन्ति सा आत्मविराधना । भारश्च मार्गे गच्छन्तानां तस्य महान् भवति । मयं च स्तेनादिभ्यस्तद्विषयं भवति ।मुक्तभोगिनीनांचस्मृतिकरणम् इतरासांतु कौतुकमुपजायते। ततश्च प्रतिगमनं-भूयोऽपि गृहवासाश्रयणम्, आदिशब्दादन्यतीर्थिकगमनादि वा कुर्युः ।। अथैनामेव नियुक्तिगाथां व्याख्यानयति[भा.३८१०] तसपानविराधनया, चम्म सलोमे उ होति अहिकरणं। निल्लेमे तसपाणा, संकुयमाणे य करणं वा ॥ वृ- सलोमनि चर्मणि संसक्तानां कुन्थुप्रभृतीनां त्रसप्राणिनां विराधना भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy