SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० ... बृहत्कल्प-छेदसूत्रम् -२-३/८१ - 'उद्धर्षिता' खरण्टिता गाढं तेन भगवता सा संयती, यथा-निर्धर्मे ! ईशंदुःखमनुभूय भवत्या वैराग्यमपिन सआतम्, मयाऽपि साधर्मिकेति कृत्वा भवती चिकित्साकरणेन प्रगुणीकृता, इतरथा मृता अभविष्यत्। एवं 'सुष्टुअतीव ज्ञापिता सा 'आत्मानं आत्मनो निरभिलाषतामित्यर्थः। ततश्च चर सम्प्रति निशङ्का तपःकर्म, एवं शासित्वा ‘सः' साधुः आवश्यकी 'चेतयति' गमनं करोतीत्यर्थः ॥अथ द्वितीयपदमाह[भा.३८०१] बिइयपयमणप्पज्झे, पविसे अविकोविए व अप्पज्झे । तेन-ऽगनि-आउसंभम, बोहिकतेनेसुजाणमवि॥ कृ-द्वितीयपदे संयतीवसतौ 'अनात्मवशः' क्षिप्तचित्तादिको नैषेधिकीत्रयकरणमन्तरेणापि प्रविशेत् । आत्मशो वा यः ‘अविकोविदः' शैक्षः सोऽप्यविधिना प्रविशेत् । यद्वा स्तेनाऽग्न्यकायसम्भ्रमेषुबोधिकस्तेनेषु वा 'जाननपि' गीतार्थोऽपि सहसा प्रविशेत् ॥ मू. (८२) नो कप्पइ निग्गंथणं निग्गंथउवस्सयंसि चिट्टित्तए वा जाव काउस्सग्गं वा ठाणं • ठाइत्तए॥ वृ-अस्य सम्बन्धमाह[भा.३८०२] पडिवखेणं जोगो, तासिं पिन कप्पंती जतीणिलयं । निकारणगमणादी, जं जुञ्जति तत्थ तं नेयं ॥ वृ. “पडिवक्खेणं" ति भावप्रधानत्वाद् निर्देशस्य प्रतिपक्षतया 'योगः' सम्बन्धः क्रियतेयथा निर्ग्रन्थानां निर्ग्रन्थ्युपाश्रये गमनादिकं कर्तुन कल्पते तथा 'तासामपि' निर्ग्रन्थीनां 'यतिनिलये निर्ग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते । एतर्थप्रतिपादनार्थमिदं सूत्रमारभ्यते । अत्र व यत्' प्रायश्चित्त-दोषजालादि पूर्वसूत्रोक्तं यत्र निष्कारणगमनादौ युज्यते तत्र तद् ‘ज्ञेयं' स्वबुद्धयाऽभ्यूह्य ज्ञातव्यम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या प्राग्वत् ।। अथ भाष्यम्[मा.३८०३] एसेव गमो नियमा, पनवण-परुवणासु अजाणं । पडिजग्गती गिलाणं, साहुं जतणाए अज्जा वि ॥ 'एष एवं पूर्वसूत्रोक्तो गमोनियमात्प्रज्ञापना-प्ररुपणयोरार्याणामपि मन्तव्यः । प्रज्ञापना नाम-निष्कारणेऽविधिना प्रविशतीत्याधुलेखेन चतुर्भङ्गयाः सामान्यतः कथनम् । प्ररुपणापृथगेकैकभङ्गकस्य स्वरुपनिरुपणम्। तथा साधुग्लानमार्याऽपियतनया तथैव प्रतिजागतिः।। नवरम्[भा.३८०४] सा मग्गइसाधम्मिं, सन्नि अहाभद्द संवरादी वा । देति य से वेदनयं, भत्तं पानं च पायोग्गं॥ दृ-द्वितीय-तृतीय-चतुर्थभङ्गेषु 'सा' संयती साधर्मिकं साधुमार्गयति, तदप्राप्तौ 'संज्ञिनं' श्रावकम्, तदलाभे यथाभद्रकम्, तदभावे संवरं स्नानिकाशोधकम्, आदिशब्दादन्यमपि तथाविधं मार्गयति । यदि चासौ मुधिकया नेछति ततस्तस्य वेतनकमपि ददाति । भक्तं पानं च तस्य ग्लानस्य प्रायोग्यमुत्पादयति॥ मू. (८३) नो कप्पइ निग्गंथीणं सलोमाइं चम्माइं अहिडित्तए । -अथास्य सूत्रस्य कः सम्बन्धः? इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy