SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-८१, [भा. ३७९४] ३६९ अहमसहिष्णुरस्मि; परमेवं स्वचेतसि निश्चिनोति, यथा-शब्दादिविषयांयतनां कुर्मः । एषा 'खलु' निश्चितं जिनानामाज्ञा ।। यतनामेवाह[मा.३७९५] सद्दम्मि हत्थ-वत्थादिएहि दिट्ठिम्मि चिलिमिनंतरिओ। संलावम्मि परम्मुहो, गोवालगकंचुतो फासे ।। वृ- यद्यसौ साधुः शब्देऽसहिष्णुस्ततस्तां ग्लानां भणति-मा वचनेन मां व्यापारयः, किन्तु हस्तेन वा वस्त्रेण वा अङ्गुल्या वा संज्ञां कुर्याः । यस्तु दृष्टिक्लीबः स सर्वमपि वैयावृत्त्यं चिलिमिलिकया अन्तरितः करोति । अथासौ संलापक्लीबस्ततोऽवश्यसंलपनीये पराङ्मुखः संलापं करोति । स्पर्शक्लीवस्तु गोपालककञ्चकमात्मना प्रावृत्य तस्याः सर्वमप्युद्वर्तनादिकृत्यं करोति ।। गतो द्वितीयभङ्गः । अथ तृतीय-चतुर्थभङ्गयोरतिदेशमाह[भा.३७९६] एसेव गमो नियमा, निग्गंथीए वि.होति असहूए । दोण्हं पि हु असहूणं, तिगिच्छ जयणाए कायव्वा ।। दृ- 'एष एव' द्वितीयभोक्तः ‘गमः' प्रकारो नियमाद् निन्थ्यामप्यसहिष्णौ कर्तव्यः । नवरं यां शब्दादियतमामसावात्मना कृतवान्तां सा संयती कारयितव्या। 'द्वयोरपिच' संयतीसंयतयोरसहिष्ण्वोः 'यतनया' द्वितीय-तृतीयभङ्गोक्त्या चिकित्सा कर्तव्या॥ प्रगुणीभूता च काचिदिदं ब्रूयात्[भा.३७९७] आयंकविप्पमुक्का, हट्ठा बलिया य निब्बुया संती । अज्जा भणेज काई, जेठ्ठज्जा ! वीसमामो ता॥ कृआतङ्केन-रोगेण विप्रमुक्ता सती हष्टा सजाता, तथा बलिका-उपचितमांस-शोणिता, निर्वृतास्वस्थीभूतन्द्रिया, एवंविधा सती काचिदार्यिका ब्रूयात्-ज्येष्ठार्य! चिरं संयमभाराक्रान्तावावाम् अत एनं भारंपरित्यज्य यथासुखं किञ्चित् कालं तावद् 'विश्राम्यावः' विश्रामगृहीवः ।। किञ्च[भा.३७९८] दिटुं च परामु, च रहस्सं गुज्झ एक्कमेक्कस्स। तं वीसमामो अम्हे, पच्छा वि तवं चरिस्सामो॥ वृ. 'रहस्यम्' एकान्तयोग्यं यद् गुह्यं तद् मदीयं भवात मयाऽपि भवदीयमुद्वर्तनपरिवर्तनादिक्रियासु बहुश एकैकस्य दृष्टं परामृष्टं च, 'तत्' तस्माद् विश्राम्यावः किञ्चित् कालं 'पश्चात्' पश्चिमे काले तपश्चरिष्यावः॥ [भा.३७९९] तं सोचा सो भगवं, संविग्गोऽवजभीरु दढधम्मो । अपरिमियसत्तजुत्तो,निकंपो मंदरो चेव ॥ वृ-'तत् तस्या आर्यिकाया वचनं श्रुत्वा स भगवान् ‘संविग्नः' मोक्षाभिलाषी, अवयं-पापं ततो भीरु-चकितः, 'दृढधर्मा चारित्रे स्थिरः, अपरिमितम्-इयत्तारहितं यत् सत्त्वं-धृतिबलं तेन युक्तः, अत एव निष्कम्पः 'मन्दर इव' मेरुगिरिखि । यथा हि मन्दरो वायुना न कम्प्यते एवं परिभोगनिमन्त्रणवायुना स भगवान्न कम्पितवान् । किन्तु[भा.३८००] उद्धंसिया य तेनं, सुटु वि जाणाविया य अप्पाणं । चरसु तवं निस्संका, उ सासियं सो उ चेतेइ ॥ . | 19 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy