________________
३६८
बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-स्त्रियाः शब्दं श्रुत्वा रूपं वा तदीयं दृष्ट्वा तया साद्धं वा यः संलापो यो वा तस्याः स्पर्शस्तेन वा तस्य मोहोद्भवः समुल्लसति । एतैः प्रकारैः ‘असहमानः' इन्द्रियनिग्रहं कर्तुमक्षमो यस्तेन यतनया चिकित्सा कर्तव्या । तद्यथा-प्रथमं सा ग्लाना प्रष्टव्या-आर्ये ! भवती किं सहिष्णुः ? उतासहिष्णुः ? । सा च गीतार्था वा भवेदगीतार्था वा ॥ तत्र[भा.३७८९] अविकोविया उ पुट्ठा, भणाइ किं मं न पाससी नियए।
छग-मुत्ते लोलंतिं, तो पुच्छसि किं सहू असहू ॥ वृ-'अविकोविदा' अगीतार्था पृष्टा इदं भणति-किंमांनपश्यसि निजके छगण-मूत्रे लोलन्तीम्? तत एवं पृच्छसि किं सहिष्णुः ? असहिष्णुः ? इति ॥ साधुराह[भा.३७९०] पासामि नाम एतं, देहावत्थं तु भगिनि ! जा तुझं।
पुच्छामि धितिबलं ते, मा बंभविराधना होज्जा। वृ-'नाम' इति कोमलामन्त्रणे, भगिनि ! पश्याम्यहमेनां देहावस्थां या साम्प्रतं तव वर्त्तते, परमहं 'ते' तव घृतिबलं पृच्छामि, मा मम तव च ब्रह्मव्रतविराधना भवेदिति कृत्वा ।।
ततः साध्वी ब्रूते[भा.३७९१] इहरा वि ताव सद्दे, रूवाणिय बहुविहाणि पुरिसाणं ।
सोऊण व दळूण व, न मनक्खोभो महं कोति॥ वृ- 'इतरथाऽपि नीरोगाया अपि मम तावत् पुरुषाणां गीतादीन् शब्दान् श्रुत्वा रूपाणि च 'बहुविधानि' विशिष्टनेपथ्यालङ्कृतानि दृष्ट्वा 'कोऽपि' मनागपिन मनःक्षोभो भवति ॥किञ्च[भा.३७९२] संलवमाणी वि अहं, न यामि विगतिं न संफुसित्ताणं।
हट्ठा वि किंतु एण्हि, तं पुन नियगं धिंति जाण ॥ वृ-अहं सकलमपि दिवसं पुरुषेण सह संलपन्ती 'विकृति विकारं न यामि, न वा पुरुषस्य हस्ताघवयवं संस्पृश्यापि विकारं गच्छामि । तदेवं हष्टाऽपि' नीरोगाऽप्यहमेवं सहिष्णुः, किं पुनः ‘इदानीं' ग्लानाद्वस्थां प्राप्ता? त्वं पुनः 'निजकाम्' आत्मीयां घृति जानीहि ॥
एवमुक्ते स किं करोति ? इत्याह[भा.३७९३] सो मग्गति साहम्मिं,सन्नि अहाभद्दिगं व सूइंवा ।
देति य से वेदनगं, भत्तं पानं व पाउग्गं ॥ वृ- ‘सः' असहिष्णुः साधुस्तत्रान्यत्र वा ग्रामे 'साधर्मिकी' संयती मार्गयति, तत्र च प्रथम संविग्नां गीतार्थाम्, तदभावे संविग्नामगीतार्थाम्, तदलाभे पार्श्वस्थां गीतार्थाम, तदप्राप्तौ पार्श्वस्थामेवागीतार्थाम् । अथ संयती न प्राप्यते ततः 'संज्ञिनी' श्राविकाम्, तामपि प्रथम गृहीताणुव्रताम्, ततो दर्शनश्राविकामपि; तदप्राप्तौ यथाभद्रिकामपि गवेषयति । तदलाभे 'सूतिकां' नवप्रसुतस्त्रीसूतिकर्मकारिणी मार्गयति । सा च धर्मकथया प्रज्ञाप्यते यथा मुधिकयैव संयत्या वैयावृत्त्यं करोति।अथासौ मुधिकया नेच्छति ततो वेतनमपि तस्यै भक्तंपानं वा प्रायोग्यं ददाति।। [भा.३७९४] एयासिं असतीए, न कहेति जहा अहं खु मिं असहू । .. सद्दादीजयणं पुन, करेमो एसा खलु जिनाणा ।। वृ- ‘एतासाम्' अनन्तरोक्तस्त्रीणामभावे स साधुस्तस्याः पुरतो नैवं कथयति, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org