SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं - ८१, [भा. ३७८३] ३६७ यथा-नैष विरुद्धाभिप्रायेणात्र वसति । 'अपरेषां च' साधूनां श्लाघनार्थम्, धनया अमी येषामेवंविधः सुटो धर्म इति ॥ [ भा. ३७८४] सो निजराए वट्टति, कुणति य आणं अनंतनाणीणं । स बितिजओ कहेती, परियट्टेगागि वसमाणो ॥ वृ- 'सः' साधुरेवं कुर्वन् विपुलायां निर्जरायां वर्त्तते, आज्ञां च 'अनन्तज्ञानिनां' तीर्थकृतां करोति । स च सद्वितीयो वसन् तस्य द्वितीयस्य धर्मं कथयति, अथैकाकी वसति ततः सर्वामपि रात्रिं परिवर्त्तयति ॥ [भा.३७८५] पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छ जतणाए । तत्थेव गणहरो अन्नहिं व जयणाए तो नेइ ॥ वृ- एवं तेन साधुना प्रतिजागरिता सा 'क्षिप्रं ' शीघ्रं प्रगुणीभवेत् । इत्थं द्वयोः सहिष्ण्वोर्यतनया चिकित्साकरणमुक्तम् । तां च प्रगुणीभूतां गृहीत्वा यदि तस्या गणधर ः 'तत्रैव' आसन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति । अथ 'अन्यत्र' दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, स्वयं वा यतनया तत्र नयति ॥ कथम् ? इत्याह [ भा. ३७८६ ] निक्कारणिगि चमढण, कारणिगिं नेति अहव अप्पाहे । गमणित्थि मिस्स संबंधि वज्जिते असति एगागी ॥ वृ- यदि सा ग्लाना संयती निष्कारणं गणाद् निष्क्रम्यैकाकिनी भूता ततस्तां 'चमढयति' निर्भर्त्सयतीत्यर्थः । अथ कारणिका ततस्तां स्वयं नयति, येषां वा आचार्याणां सा संयती तेषां सन्दिशति, यथा-युष्माकं संयती साम्प्रतमत्र तिष्ठति, अस्या आनयनकृते सङ्घाटकः प्रहेयः । यदा पुनः स स्वयं नयति तदा इयं यतना- "गमणित्थि " इत्यादि । स्त्रीसार्थेन सम्बन्धिना समं प्रथमतो नयति, ततः स्त्रीसार्थेनैवसम्बन्धिमिश्रेण, ततः स्त्रीसार्थेनैवासम्बन्धिना । ततः पुरुषमिश्राभिरपि स्त्रीभिः प्रथमं सम्बन्धिपुरुषयुक्ताभि, ततोऽसम्बन्धिमिश्रपुरुषयुक्ताभिः, ततोऽसम्बन्धिभिरपि । ततः पुरुषैरेव केवलैः प्रथमं सम्बन्धिभि, ततोऽसम्बन्धिमिश्रः, ततोऽसम्बन्धिभिरपि समं नयति । एषां प्रकाराणामभावे स साधुरेकाक्यपि तां नयति, तत्र चात्मना पुरतो गच्छति, संयती तु नासन्ने नातिदूरे पृष्ठतः स्थिता आगच्छति ।। गतः प्रथमो भङ्गः । अथ द्वितीयं भङ्गं बिभावयिषुराह [भा. ३७८७] न विय समत्यो सव्वो, हवेज एतारिसम्मि कज्जम्मि । कायव्वो पुरिसकारो, समाहिसंधाणणट्ठाए । वृ- 'साध्वी सहिष्णुः साधुरसहिष्णुः' इत्ययं भङ्गो भाव्यते- 'नापि च ' नैव सर्वोऽपि साधुः 'एताशे' स्त्रियाः स्पर्शादावपि मनोनिग्रहात्मके कार्ये समर्थो भवेत् ततः कि सा ग्लाना सती तेन परित्यक्तव्या ? न इत्याह-ज्ञान-दर्शन- चारित्राणां यः समाधि- अन्योऽन्याविरोधेनैकत्रावस्थानं तस्य सन्धानार्थं तथा साधुना पुरुषकारः कर्त्तव्यः यथा तस्याश्चिकित्सा क्रियते आत्मनश्च शीलखण्डना न भवति ।। स पुनः साधुः कथमसहिष्णुर्भवति ? इत्युच्यते [भा. ३७८८] सोऊण य पासित्ता, संलावेणं तहेव फासेणं । एतेहि असहमाणे, तिगिच्छ जयणाइ कायव्वा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy