________________
२३९
उद्देशक ः १, मूलं-४७, [भा. ३१६७] ग्रामाद् बहिर्वसन्ति ततः को दोषः स्यात् ? इति प्रश्नावकाशमाशङ्कयाह[भा.३१६८] बहिया य रुक्खमूले, छक्काया साण-तेन-पडिनीए।
मतुम्मत्त विउव्वण, वाहण जाणे सतीकरणं॥ कृग्रामादेर्बहिर्वक्षमूलेआकाशेवापृथिवीकायः सचित्तरजःप्रभृतिकः, अप्कायः स्नेहकणिकादि, तेजःकायो विद्युदादि, वायुकायो महावातादि, वनस्पतिकायो विवक्षितवृक्षसत्कपुष्प-फलादि, त्रसकायो वृक्षनिश्रितद्वीन्द्रियादिरूपः सम्भवति; एतेषटकायास्तत्र तिष्ठतां विराध्यन्ते, असंवृते चतत्र श्वानोभाजनमपहरेत्, स्तेनावा उपद्रवेयुः, प्रत्यनीको वा विजनं मत्वा हन्याद्वा मारयेद्वा। तथा 'मत्ताः' मदिरामदभाविताः 'उन्मत्ताः' मन्मथोन्मादयुक्ता विटा इत्यर्थः ते 'विकुर्वणां' भूषणादिभिरलङ्करणंविधायतत्रागच्छन्ति, वाहनानि हस्त्यश्वादीनि यानानि शिबिका-रथादीनि, तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायत इति नियुक्तिगाथासमासार्थः ॥अथैनामेव भाष्यकारो विवृणोति[भा.३१६९]मा होज्ज अंतो इति दोसजालं, तो जाति दूरं बहि रुक्खमूले।
अभुञ्जमाणे तहियं तु काया, अवाउते तेन सुणा य नेगे॥ वृ-'अन्तः' ग्रामाभ्यन्तरे सभादौ वसताम् ‘इति' अनन्तरोक्तं दोषजालंमा भूदित्यभिसन्धाय 'ततः' ग्रामाद् बहिदूरे वृक्षमूले याति।तत्रच अभुज्यमाने' अव्याप्रियमाणे प्रदेशे पूर्वोक्तनीत्या षडपि काया विराध्यन्ते । अपावृतेच तत्र स्तेनाः श्वानश्वानेके उपद्रवं विदधति ।। [भा.३१७०]उम्मत्तगा तत्थ विचित्तवेसा, पढंति चित्ताऽभिनया बहूनि ।
कीलंति मत्ता य अमत्तगाय, तत्थित्थि-पुंसा सुतलंकिता य॥ वृ-'तत्र' उद्याने उन्मत्ताः'विटाः 'विचित्रवेषाः' विविधवस्त्रादिनेपथ्यधारिणः 'चित्राभिनयाः' नानाप्रकारहस्ताघभिनया बहूनि शृङ्गारकाव्यानि पठन्ति । तथा मत्ता अमत्ता वा तत्र स्त्रीपुरुषाः सुष्ठु-वस्त्रा-ऽऽभरणैरलङ्कृताः सन्तः क्रीडन्ति ॥ [भा.३१७१] आसे रहे गोरहगेय चित्ते, तत्थाभिरूढाडगणे य केइ।
विचित्तरूवा पुरिसा ललंता, हरंति चित्ताणऽविकोविताणं ॥ वृ-'तत्र' उद्याने केचित् पुरुषाअश्वान्अपरेरथान्तदन्ये 'गोरथकान् कल्होडकान् केचित् 'चित्राणि' नानाप्रकाराणि युग्यादीनि यानानि 'डगणानि च' यानविशेषरूपाण्यधिरूढाः सन्तो विचित्ररूपाः पुरुषाः श्रेष्ठिपुत्रादयः ललन्तः क्रीडन्तो अविकोविदानाम् अगीतार्थानां चित्तानि हरन्ति । ततश्च भुक्ता-ऽमुक्तसमुत्था दोषाः॥ [भा.३१७२] सामिद्धिसंदसणवावडेन, विपस्सता तेसि परेसि मोक्ने ।
तत्थोतपोतम्मि समंततेणं, भिक्खा-वियारादिसुदुप्पयारं॥ वृ-समृध्याः-वस्त्रा-ऽऽभरणादिरूपायाः सम्-इति सामस्त्येन यद् दर्शनम्-अवलोकनं तत्र व्यापृतेन-'इदं पश्यामि, इदं वा पश्यामि' इति व्याक्षिप्तचेतसा, तथा तेषांपरेषां' श्रेष्ठिप्रभृतीनां यान-वाहनादीनि 'मुख्यानि' प्रधानानि विविधम्-अनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः । तत्र च स्त्री-पुरुषैः समन्ततः 'उअपोते' देशीपदत्वाद् आकीर्णे भिक्षायां विचारभूमौ आदिशब्दाद् विहारभूम्यादौ च दुष्प्रचारं भवति । यत एते दोषा अतः सङ्घड्यां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org