________________
बृहत्कल्प-छेदसूत्रम् -२-१/४७
२३८
[भा. ३१६३ ] आवासग सज्झाए, पडिलेहण भुंजणे य भासाए । वीयारे गेलणे, जा जहि आरोवणा भणिया ||
वृ- आवश्यके 9 स्वाध्याये २ प्रत्युपेक्षणायां ३ भोजने ४ च भाषायां ५ विचारे ६ ग्लानत्वे च ७ या यत्रारोपणा भणिता सा तत्र ज्ञातव्येति द्वारगाथासमासार्थः ॥
साम्प्रतमेनामेव प्रतिपदं विवृणोति
[भा. ३१६४ ] आवासगं तत्थ करेंति दोसा, सज्झाय एमेव य पेहणम्मि । उडुंच वारेंतमवारणे य, आरोवणा तानि अकुव्वओ जा ॥
वृ- 'तत्र' सभादौ गृहस्थैः सह वसन्तो यद्यावश्यकं स्वाध्यायं वा कुर्वन्ति तदा ते कर्णाघाटकेनागमयन्ति उड्डुञ्चकान् वा कुर्वन्ति, एवमादयो दोषाः । प्रत्युपेक्षणायामपि 'एवमेव' उड्डुञ्चकान् कुर्वन्ति । यदि वार्यन्ते तदा साधुभि सहासङ्घडं कुर्यु । अथन वार्यन्ते ततो भगवत्प्रवचनस्य भक्ति कृता न स्यात् । अथैतद्दोषभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो या काचिदारोपणा सा द्रष्टव्या । तद्यथा-कायोत्सर्गं न करोति, वन्दनकं न ददाति, स्तुतिप्रदानं न करोति, सूत्रपौरुषीं न करोति, सर्वेष्वपि मासलघु । अर्थपौरुषीं न करोति मासगुरु । जघन्यमुपधिं न प्रत्युपेक्षते रात्रिन्दिवपञ्चक् । मध्यमं न प्रत्युपेक्षते मासलघु । उत्कृष्टंन प्रत्युपेक्षते चतुर्लघु ।। व्याख्यातमावश्यकस्वाध्याय-प्रत्युपेक्षणालक्षणं द्वारत्रयम् । अथ भोजनभाषाद्वारे विवृणोति
[भा.३१६५] जं मंडलिं भंजई तत्थ मासो, गारत्थिभासासु य एवमेव । चत्तारि मासा खलु मंडलीए, उड्डाहो भासासमिए वि एवं ॥
वृ- भोजनं कुर्वन् सागारिकमिति मत्वा यद् मण्डलीं भनक्ति तत्र मासलघु । अगारस्थभाषासु च भाष्यमाणासु 'एवमेव' मासलघु । अथैतव्प्रायश्चित्तभयाद् मण्डल्यां समुद्दिशन्ति तदा चत्वारो मासा लघवः, 'उड्डाहश्च' प्रवचोपघातो मण्डल्यां समुद्देशने भवति । एवं भाषासमितेऽपि मन्तव्यम्, संयतभाषया भाषमाणस्य चत्वारो लघुमासा भवन्तीति भावः ॥ अथ विचारद्वारं विवृणोति
[भा. ३१६६] थोवे घणे गंधजुते अभावे, दवस्स वीयारगताण दोसा । वायसंलोगगया य दोसा करेंतऽकुव्वं परितावणादी ॥
वृ-विचारभूमौ गतानां 'स्तोके' स्वल्पे 'घने' कलुषे 'गन्धयुते' दुर्गन्धिनि द्रवेऽभावे वा सर्वथैव द्रवस्य 'दोषाः' अवर्णवाद - भक्तपानप्रतिषेधादयो भवन्ति । तथा पुरुषादीनामापाते संलोके वा संज्ञां कायिकीं वा कुर्वन्ति तदा तद्गता दोषा यथां पीठिकायां विचारकल्पिकद्वारे उक्तास्तथा द्रष्टव्याः । अथैतद्दोषभयात् कायिकीं वा संज्ञां वा न करोति किन्तु धारयति तदा परितापनामहादुःख-मूर्च्छादयो दोषाः ।। अथ ग्लानद्वारं व्याख्याति
[भा.३१६७] गिलाणतो तत्थऽतिभुंजणेण, उच्चारमादीण वा सन्निरोधा । अगुत्तसिज्जा व सन्निवासा, उड्डाह कुव्वंतिमकुव्वतो य ॥
वृ- 'तत्र' सङ्घड्यात्कृष्टद्रव्यलोभादतिमात्रभोजनेन यद्वा सागारिकाकीर्णतया तत्रोच्चारादीनां सन्निरोधाद् ग्लानो भवेत् । अथवा अगुप्ताः - असंवृता याः शय्याः वसतयस्तासु सन्निवासाद् ग्लानत्वमुपजायते, प्रतिश्रयशीतलया भक्तस्थाजीर्यमाणत्वात् । स चग्लानोयदि तत्रोच्चारप्रश्रवणादि करोति तदा सागारिका उड्डाहंकुर्युः । अथ न करोति ततः परितापनादयो दोषाः ॥ अथैतद्दोषभयाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org