________________
उद्देशक : १, मूलं-४७, [भा. ३१५८]
२३७
वृ-वसतेः सम्बन्धिनो ये आधाकर्मादयो दोषास्तेषु लगन्ति । परतीर्थिकाश्च तत्र गतानां तर्जनां कुर्वन्ति । 'बिलधर्मो नाम' एकस्यामेव वसतौ गृहस्थैः समं संवर्त्तयैकत्रावस्थानम्, तत्रासबडं स्यात् । तत्र च सङ्खड्यामातोद्य-गीतशब्दाद्यान् स्त्रीशब्दांश्च सविकारान् श्रुत्वा चशब्दादविरतिका अलङ्कृता दृष्ट्वा स्मृतिकरणादयो दोषा इति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[ मा. ३१५९ ] आहाकम्मियमादी, मंडवमादीसु होति अणुमन्ना । रुक्खे अमावासे, उवरिं दोसे परूवेस्सं ॥
वृ सङ्खडीकर्ता दानश्राद्धो यथाभद्रको वा साधूनां निमित्तमाधाकर्मिकान् मण्डपान् कारयेत्, आदिशब्दाद् यावन्तिकादिपरिग्रहः । तेषु मण्डपेषु आदिशब्दात् पटकुटीप्रभृतिषु च तिष्ठतामनुमतिदोषः प्राप्नोति । अथैतद्दोषभयान तत्र तिष्ठन्ति ततोऽन्यत्र वसतिमलभमाना वृक्ष मूलेऽभ्रावकाशे वा वसन्ति । तत्र च वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयिष्यामि ॥ परतीर्थिकतर्जनाद्वारमाह
[भा. ३१६०] इंदियमुंडे मा किंचि बेह मा ने इहेज्ज सावेगं । हा- सोयादीसु य, असंखडं हेउवादो य ॥
वृ-ये तत्र सङ्घडीं श्रुत्वा शाक्य-भौत-भागवतादयः परतीर्थिकाः समायातास्ते साधून् तर्जयन्त इत्थं ब्रुवते - इन्द्रियमुण्डा अमी सङ्घडिप्राप्ताः श्रमणाः, 'मा किञ्चिदमून् ब्रूत' न किमप्यमीषां सम्मुखं विरूपकं भाषणीयम्, मा “ने” युष्मान् अमी तपस्विन आक्रुष्टाः सन्तः शापेन दहेयुः । एवं तर्जनामसहमाना अपरिणतास्तैः सहासङ्घडं कुर्युः । तथा प्रेक्षा - प्रत्युपेक्षणा तां कुर्वतो दृष्ट्वा शौचं वा स्वल्पकलुषादिना पानकेन विधीयमानं दृष्ट्वा आदिशब्दात् संयतभाषया भाषमाणान् श्रुत्वा परतीर्थिका उड्डञ्चकान् कुर्वन्ति, तत्र तथैवासङ्घडं भवेत् । हेतुना वा ते परतीर्थिका वादं मार्गयेयुः । यदि दीयते ततस्तेषामात्मनो वा पराजये यथाक्रमं प्रद्वेषगमन-प्रवचनलाघवादयो दोषाः । अथ न दीयते ततस्ते लोकसमक्षवर्णवादं कुर्यु-बठरशिरः शिखरा एते न किमपि जानन्तीत्यादि ॥ बिलधर्मद्वारमाह
[ भा. ३१६१] भिंगारेण न दिन्ना, न य तुज्झं पेतिगी सभा एसा । अतिबहुओ ओवासो, गहितो णु तुए कलहो एवं ॥
वृ- साधारणे सभादौ पिण्डीभूय साधवो गृहस्थाश्च यदेकत्रावतिष्ठन्ते स बिलधर्मः । तेन वसतां साधुभिः परभूतेऽवकाशे मालिते सति गृहस्था ब्रुवते भो श्रमण ! एषा सभा तुभ्यं न भृङ्गारेण दत्ता, उदकेन न कल्पितेति भावः; न च तवेयं 'पैतृकी' पितृपरम्परागता, अतः किन्नु नाम अतिबहुकोऽवकाशस्त्वया गृहीतः ? एवं कलहो भवति ॥
[ भा. ३१६२] तत्थ य अतिंत नेतो, संविट्ठो वा छिवेज्ज इत्थीओ। इच्छमनिच्छे दोसा, भुत्तमभुत्ते य फासादी ॥
वृ- 'तत्र च ' सभादौ कोऽपि साधुरतिगच्छन् निर्गच्छन् वा समुपविष्टो वा स्त्रीः स्पृशेत् तत आत्मपरोभयसमुत्था दोषाः । तत्र च यदि तामविरतिकां प्रतिसेवितुमिच्छति तदा संयमविराधना । अथ नेच्छति ततः सा उड्डाहं कुर्यात् । स्त्रीणांच स्पर्शादिषु तथा आतोद्य-गीतशब्दान् स्त्रीसम्बन्धिनश्च हसित - कूजितादिशब्दान् श्रुत्वा भुक्ता-भुक्तसमुत्था दोषाः । भूयोऽपि दोषदर्शनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org