SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३६ बृहत्कल्प-छेदसूत्रम् -२-१/४७ वृ- ग्रामानुग्रामिकं वा 'रीयमाणाः' विहरन्तः क्वापि ग्रामे सङ्घडिं श्रुत्वा ये त्वरितं गच्छन्ति; सति वा भिक्षाकाले तं ग्रामं परित्यजन्ति, परित्यज्य च सङ्घडिग्रामं गच्छन्ति, तेषामपि 'दोषाः' वक्ष्यमाणा भवन्ति ॥ [ भा. ३१५३ ] गंतुमणा अन्नदिसिं, अन्नदिसि वयंति संखडिनिमित्तं । मूलग्गामे व अडं, पडिवसभं गच्छति तदट्ठा ॥ वृ- भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः सङ्घडिं श्रुत्वा तन्निमित्तमन्यस्यां दिशि व्रजन्ति । मूलग्रामे वा अटन् सङ्घडिमाकर्ण्य प्रतिवृषभग्रामे 'तदर्थं' सङ्घडिहेतोर्गच्छति ।। एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपदिदर्शयिषुराह [भा. ३१५४ ] एगाहि अनेगाहिं, दिया व रातो व गंतु पडिसिद्धं । आणादि य दोसा, विराधना पंथि पत्ते य ॥ वृ- एकाहिकीमनेकाहिकीं वा तां सवडीं गन्तुं दिवा रात्रौ वा प्रतिषिद्धां यदि गच्छति तत आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया पथि वर्त्तमानानां तत्र प्राप्तानां च भवति ॥ तत्र पथि वर्त्तमानानां तावद् दोषानभिधित्सुराह भा (३१५५ ] मिच्छत्ते उड्डाहो, विराधना होति संजमाऽऽयाए । रीयादि संजमम्मिय, छक्काय अचक्खुविसयम्मि ।। वृ- सङ्घडिं गच्छतः साधून् ध्ष्ट्वा यथाभद्रकादयो मिथ्यात्वे स्थिरतरीभवेयुः, उड्डाहो वा भवेत्। तथा संयमा-ऽऽत्मविराधना भवति । तत्र संयमविराधना भाव्यते-'मा सङ्घडिदिवसो व्यतिक्रामतु' इति कृत्वा रात्रौ गच्छन् ईर्यादिसमितीर्न शोधयति । अचक्षुर्विषये च गच्छतां षट्कायविराधना । आत्मविराधना तु पुरस्ताद् वक्ष्यते ॥ अथ मिथ्यात्वोड्डाहद्वारे व्याचष्टे - जीहादोसनियत्ता, वयंति लहेहि तज्जिया भोजे । [भा. ३१५६ ] थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चैव ॥ वृ-लोको ब्रूयात्- अहो ! अमी श्रमणाः 'जिह्वादषनिवृत्ताः' रसगृद्धिरहिता अपि 'रूक्षैः' वल्लचणकादिभिराहारैस्तर्जिताः सन्तः सम्प्रति 'भोज्यार्थं ' सङ्घडिहेतोर्गच्छन्ति इत्युड्डाहो भवेत् । तथा यथैतदमीषामसत्यं तथा अन्यदपि मिथ्या प्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति । ये च तत्पाक्षिकाः-साधुपक्षबहुमानिनः श्रावकास्तेषां क्षोभना-मिथ्यादृष्टिभिः सम्यक्त्वाच्चालना भवति ।। अथाऽऽत्मविराधनामाह [भा. ३१५७] वाले तेने तह सावते य विसमे य खाणु कंटे य । अकमहाभयं आतसमुत्थं रत्तेमादी भवे दोसा ।। वृ- रात्रौ सङ्घडिगमने 'व्यालः' सर्पस्तेन दश्येत, स्तेनैरुपकरणमपहियेत, 'श्वापदैः ' सिंहादिभिरुपद्रूयेत्, ‘विषमेच' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकेन वा विध्येत, अकस्माद्भयं चात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भवेयुः ॥ एवं तावत् पथि गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानामाह[भा. ३१५८] वसहीए जे दोसा, परउत्थियतज्जणा य बिलधम्मो । आतोज्ज-गीतसद्दे, इत्थीसद्दे य सविकारे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy