________________
उद्देशक : १, मूलं-४७, [भा. ३१४८ ]
२३५
सासवडी 'वृत्ता' समाप्ता 'अवृत्तावा' अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी; एवं वृत्तामवृत्तां वा 'निशम्य' श्रुत्वा 'प्रत्यायान्ति' प्रतिनिवर्त्तन्ते । तत्र वेलामङ्गीकृत्य यथा कैश्चिदपि साधुभिः श्रुतम् - अद्यामुकगृहे पूर्वाह्णवेलायां सङ्घडी भविष्यति; ततस्ते पात्राण्युद्ग्राह्य तस्यां गन्तुं प्रस्थिताः, अपान्तराले च तैः श्रुतम्, यथा - अतिक्रान्ता सा सङ्घडी । एवमपराह्णवेलाभाविनीं सङ्घडीं श्रुत्वा प्रस्थिताः, अपान्तराले चाकर्णितम्, यथा- नाद्यापि तत्र वेला; एवं श्रुत्वा प्रतिनिवर्त्तन्ते । दिवसमधिकृत्य पुनरित्थम्- “होहिइ" इत्यादि पश्चार्द्धम् । कचिद् ग्रामे स्थितैः श्रुतम्-अमुकग्रामे 'अमुकदिवसे' पञ्चमीप्रभृतिके सङ्घडिर्भविष्यति; इत्याकर्ण्य ते तं ग्रामं प्रस्थिताः, तत्र च गच्छद्भिरन्तरा श्रुतम्, यथा-वृत्ता सा सवडी भविष्यति वा । कथम् ? इत्याह-“सा पुन अन्नम्मि पक्खम्मि' ति यस्यां पञ्चम्यां भाविनी सङ्घडी साधुभिः श्रुता सा पुनः 'अन्यस्मिन्' अतीतेऽनागते वा पक्षे भता वा भविष्यति वा, न तत्पक्षवर्तिनीति भावः ॥
अथ सङ्घडी कथं कुत्र वा भवति ? इत्युच्यते
[भा. ३१४९] आदेसो सेलपुरे, आदानऽट्ठाहियाए महिमाए । तोसलिविसए विन्नवणट्ठा तह होति गमणं वा ॥
वृ- 'आदेशः' सङ्घडिविषये दृष्टान्तोऽयम्-तोसलिविषये शैलपुरे नगरे ऋ षितडागं नाम सरः । वर्षे वर्षे भूयान् लोकोऽष्टाहिकामहिमां करोति । तत्रोत्कृष्टावगाहिमादिद्रव्यस्यादानं ग्रहणं तदर्थं कोऽपि लुब्धो गन्तुमिच्छति । ततः स गुरूणां विज्ञपनां सङ्घडिगमनार्थं करोति । आचार्या वारयन्ति । तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः ॥ अथैनामेव विवणोति
[भा. ३१५० ] सेलपुरे इसितलागम्मि होति अट्ठाहिया महामहिमा । कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मि ||
'वृ-तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्षं महता विच्छर्देनाऽष्टाहिंकामहामहिमा भवति । तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती भूयान् लोकः सङ्घडिं करोति । प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां सङ्घडि क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धीपूर्वदिगभिमुखः प्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि सङ्घडिं करोति ।। एवमादिषु सङ्घडीषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् सङ्घडिगमनार्थं विज्ञपयति । गुरवो ब्रुवते - आर्य! न कल्पते सङ्घडिं गन्तुम्, ततोऽसौ मायया ब्रवीति
[भा. ३१५१] अत्थिय में पुव्वदिट्ठा, चिरदिट्ठा ते अवस्स दट्ठव्वा । मायागमने गुरुगो, तहेव गामाणुगामम्मि ॥
वृ- सन्ति मे तत्र ग्रामे 'पूर्वष्टाः' पूर्वपरिचिताः सुहृदादयः, ते च 'चिरद्दष्टाः' प्रभूतकालस्तेषां मिलितानमभवदिति भावः, अत इदानीमवश्यं द्रष्टव्यास्ते मया । एवं मायया गुरूनापृच्छय यदि गच्छति तदा गुरुको मासः । ग्रामानुग्रामेऽपि विहरतां सङ्घडिं श्रुत्वा गच्छतां तथैव मासगुरुकम्॥ इदमेव व्याचष्टे[भा. ३१५२]
Jain Education International
गामानुगामियं वा, रीयंता सोउ संखडिं तुरियं । छडेंति व सति काले, गामं तेसिं पि दोसा उ ।।
For Private & Personal Use Only
www.jainelibrary.org