________________
२३४
बृहत्कल्प-छेदसूत्रम् -२-१/४७
वृ-'एकैका' एकदैवसिकी अनेकदैवसिकीच 'सा' सङ्खडि प्रत्येकंद्विधा-पुरःसङ्खडीपश्चात्सङ्खडी चीया पूर्वसूर्ये पूर्वदिग्विभागमध्यासीनेरवौक्रियतेसापुरःसङ्खडी, या पुनरपरसूर्येसा पश्चात्सङ्घडी। अथवा दिग्विभागेनानयोः पुरः-पश्चाद्विभागो विज्ञेयः-या विवक्षितग्रामादेः सकाशात् पूर्वस्यां दिशि भवति सा पूर्वसङ्खडी, या तु तस्यैवापरस्यां दिशि सा पश्चात्सङ्खडी । अत्र प्रायश्चित्तमाह[भा.३१४४] दुविहाए विचउगुरू, विसेसिया भिक्खुमादिणं गमने।
गुरुगादि व जा सपदं, पुरिसेगा-ऽनेग-दिन-रातो॥ वृ-द्विविधायामप्यनन्तरोक्तायां सङ्खड्यां गमने चतुर्गुरुकाः । एते च भिक्षुप्रभृतीनां तपःकालविशेषिताः-भिक्षोस्तपसा कालेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन लघवः, आचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गुरुकमादौ कृत्वा एकानेकपुरुषकृतैकानेकदैवसिकसङ्खडीषुरात्री गच्छतः स्वपदं छेदादिकंयावन्नेतव्यम् । तद्यथा-भिक्षुरेकपुरुषकृतामेकदैवसिकी सङ्खडी व्रजति चतुर्गुरवः, एकपुरुषकृतानेकदैवसिक्यां षड्लघवः, अनेकपुरुषकृतायामेकदैवसिक्यां षड्गुरवः, अनेकपुरुषकृतानेकदैवसिक्यां छेदः । एवं भिक्षुविषयमुक्तम् । वृषभस्य षड्लघुकादारब्धं मूले, उपाध्यायस्य षड्गुरुकादारब्धमनवस्थाप्ये, आचार्यस्य च्छेदादारब्धं पाराञ्चिके निष्ठामुपयाति ।। प्रकारान्तरेण प्रायश्चित्तमेवाह[भा.३१४५] आयरियगमने गुरुगा, वसभाण अवारणम्मि चउलहुगा।
दोण्ह विदोन्नि वि गुरुगा, वसभ बला तेतरे सुद्धा ।। वृ-आचार्यस्य “सङ्खड्यां गच्छामः' इति ब्रुवाणस्य चत्वारो गुरवः । तमेवंब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथाचार्येण सङ्घडीं व्रजामः' इत्युक्ते वृषभा अपि 'व्रजामः' इति भणन्ति ततः 'द्वयोरपि वृषभा-ऽऽचार्ययोर्ये चत्वारो मासास्ते द्वयेऽपि गुरुकाः कर्तव्याः, वृषभाणामपि चतुर्गुरुका भवन्तीति भावः । अथ वृषभैारिता अप्याचार्या बलामोटिकया गच्छन्ति ततः 'ते' आचार्या प्रायश्चित्ते लग्नाः, 'इतरे' वृषभास्ते 'शुद्धाः' न प्रायश्चित्तभाज इति॥ [भा.३१४६] सव्वेसि गमने गुरुगा, आयरियअवारणे भवे गुरुगा।
. वसभे गीता-ऽगीए, लहुगा गुरुगोयलहुगोय॥ वृ-यदि सर्वेऽपि साधवो भणन्ति “सङ्खड्यां गच्छामः' इति ततस्तेषां चत्वारो गुरुकाः । आचार्यास्तान वारयति चतुर्गुरवः । वृषभो न वारयति चतुर्लघवः । गीतार्थो भिक्षुर्न वारयति गुरुको मासः। अगीतार्थो न वारयति लघुको मासः॥। [भा.३१४७] एगस्स अनेगाणव, छंदेन पहाविया तु ते संता।
वत्तमवत्तं सोचा, नियत्तणे होंति चउगुरुगा। वृ- 'एकस्य' आचायदिः 'अनेकेषां वा' बहूनां 'छन्देन' अभिप्रायेण 'ते' सङ्खड्या उपरि प्रधाविताः सन्तोवृत्तामवृत्तां वा सङ्खडीं श्रुत्वा यदि निवर्तन्ते ततश्चतुर्गुरुका भवन्ति ॥
इदमेव भावयति[भा.३१४८] वेलाए दिवसेहि व, वत्तमवत्तं निसम्म पञ्चेति ।
होहिइ अमुगं दिवसं, सा पुन अन्नम्मि पक्खम्मि। वृ-वेलया दिवसैर्वा प्रतिनियतां सङ्घडीं श्रुत्वा प्रस्थिताः, गच्छद्भिश्चापान्तराले श्रुतम्, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org