________________
उद्देश : १, मूलं - ४६, [भा. ३१३७]
२३३
चारित्रार्थं वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्वं मार्गेण पश्चादच्छिन्नेन च्छिन्नेन वा पथाऽपि गन्तव्यम् । अत्र यतनामाह
[भा. ३१३८]
एपागन्नं च सता, वीसं चऽद्धाणनिग्गमा नेया । एत्तो एक्क्कम्मिय, सतग्गसो होइ जतणाओ ॥
वृ-सार्थपञ्चकेन कालोत्थायिप्रभृतिमिश्चतुर्भिः सार्थवाहैरष्टभिश्चादियात्रिकैरेकपञ्चाशच्छतानि विंशत्यधिकानि अध्वनिर्गमप्रकारा भवन्ति । एते च प्राक् सप्रपञ्चं भाविताः । एतेषु भङ्गकेष्वेकैकस्मिन् भङ्गकेऽ शिवादिकारणेऽध्वनि गच्छतां शताग्रशः प्रागुक्तनीत्या यतना भवन्ति ॥
मू. (४७) संखडिं वा संखडियपडिया इत्तए ।
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[ भा. ३१३९] दुविहाऽवाता उ विहे, वुत्ता ते होज्ज संखडीए तु । तत्थ दिया विन कप्पति, किमु रातिं एस संबंधो ॥
वृ- 'विहे' अध्वनि गच्छतां संयमा-ऽऽत्मविराधनाभेदाद् द्विविधाः प्रत्यपाया उक्ताः । सङ्घड्यामपि गच्छतांत एव प्रत्यपाया भवेयुः । अतस्तत्र दिवाऽपि गन्तुं न कल्पते किमुत रात्रौ ? एष सम्बन्धः ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या - "संखडिं वा ” इति वाशब्दाद् “न कल्पते” इत्यादिपदान्यनुवर्त्तनीयानि । तद्यथा- न केवलमध्वानं रात्रौ वा विकाले वा गन्तुं न कल्पते, किन्तु सङ्घडिमपि रात्री वा विकाले वा सङ्घडिप्रतिज्ञया 'एतुं' गन्तुं न कल्पते । एष सूत्रसङ्क्षेपार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह
[भा. ३१४०] संखंडिजंति जहिं, आऊणि जियाण संखडी स खलु । तप्पडिता न कप्पति, अन्नत्थ गते सिया गमणं ।
वृ- सम्-इति सामस्त्येन खण्डयन्ते - त्रोटयन्ते, 'जीवानां' वनस्पतिप्रभृतीनामायूंषि प्राचुर्येण 'यत्र' प्रकरणविशेषे सा खलु सङ्घडिरित्युच्यते, “स्वरेभ्य इः" इत्यौणादिक इप्रत्ययः, पृषोदरादित्वादनुस्वारलोपः, तां सङ्घडिं 'तत्प्रतिज्ञया' 'सङ्घडिमहं गमिष्यामि इत्येवंलक्षणया गन्तुं न कल्पते। एवं ब्रुवता सूत्रेणेदं सूचितम् -'अन्यार्थम्' अपरकार्यनिमित्तं सङ्घडिग्रामं गतस्य सङ्घड्यामपि गमनं स्यादिति । अथात्रैव प्रायश्चित्तमाह
[ भा. ३१४१ ] राओ व दिवसतो वा, संखडिगमणे हवंतऽनुग्घाया । संखड एगमनेगा, दिवसेहि तहेव पुरिसेहिं ॥
वृ-रात्रौ वा दिवसतो वा सङ्घड्यां सङ्घडिग्राममुद्दिश्य गमने चत्वारोऽनुद्धाताः प्रायश्चित्तम् । सा च सङ्घडी दिवसैः पुरुषैश्चैका अनेका च भवति ॥ इदमेव स्पष्टयतिएगो एगदिवसियं, एगो ऽनेगाहियं व कुज्जाहि । नेगा व एगदिवसिं, नेगा व अनेगदिवसं तु ॥
[भा. ३१४२ ]
वृ- एकपुरुष एकदैवसिकीं सङ्खडीं कुर्यात्, एकः 'अनेकाहिकाम्' अनेकदैवसिकीम्, अनेके पुरुषाः सम्भूयैकदैवसिकीम्, अनेके पुरुषा अनेकदैवसिकीं सङ्घडीं कुर्वन्ति ॥ एक्केक्का सा दुविहा, पुरसंखडि पच्छसंखडी चेव । पुव्वा ऽवरसूरम्मिं, अहवा वि दिसाविभागेणं ॥
[भा. ३१४३]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org