________________
२४०
गन्तव्यम् ॥ अथ परः प्राह[भा. ३१७३]
बृहत्कल्प - छेदसूत्रम् -२-१/४७
दोसेहि एत्तिएहिं, अगेण्हंता चेव लग्गिमो अम्हे । गेहामु य भुंजामु य न य दोस जहा तहा सुणसु ।
- सङ्घडिगमने यावन्त एते भवद्भिर्दोषा उक्ता एतावद्भिर्वयं सङ्घडिभक्तमगृह्णाना एव लगामः, ततो न कार्यमस्माकं ग्रामादिमध्याध्यासनेन । सूरिराह वयं सङ्घडिभक्तं गृह्णीमो वा भुमहे वा न च 'दोषाः ' पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु । इयं पुरातना गाथा ॥ अथैनामेव व्याख्यानयति
[भा. ३१७४] होहिंति न वा दोसा, ते जाण जिनो न चेव छउमत्थो । पाणियसद्देण उवाहणाउ नाविब्भलो मुयति ॥
वृ- हे नोदक ! नायं नियमो यत् सङ्घडिं गच्छतामवश्यमनन्तरोक्ता दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात्; ततः 'ते दोषा भविष्यन्ति वा' इत्येवं जिनो जानाति नैव छद्मस्थो भवादृशः । अतो यदुक्तं भवता- "इत्थं गते सुविहिता अरण्ये गत्वा वसन्तु तदेतदज्ञानविजृम्भितम्, यतः पानीयशब्देनोपानहौ न 'अविह्वलः' अमूर्खो मुञ्चति, यो मूर्खो भवति स एव मुञ्चतीति भावः; एवं भवानपि सङ्घडिगमनमात्रे दोषोपप्रदर्शनं श्रुत्वा यदेवं ग्रामादीन् परित्यज्यारण्यवासमभयुपगच्छति तद् नूनमबुधचक्रवर्तीति हृदयम् ।। अपि च
[भा. ३१७६ ]
दोसे चेव विमग्गह, गुणदेसित्तेन निच्चमुजुत्ता । नहु होति सप्पलोद्धी, जीविउकामस्स सेयाए ।
वृ-हे नोदक ! यद्यपि कारणे वक्ष्यमाणयतनया सङ्घडिगमने प्रत्युत बहवो गुणा भवन्ति तथापि गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणान्वेषणबुध्या दोषानेव विमार्गयथ न गुणान्; भवन्ति चेध्शा अपि केचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न गुणनिवहम् । उक्तञ्चगुणये सत्यपि सुप्रभूते दोषेषु यत्नः सुमहान् खलानाम् ।
क्रमेलकः केलिवनं प्रविश्य, निरीक्षते कण्टकजालमेव ॥
यतः 'न हि' नैव 'सर्पलुब्धिः' सर्पग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किन्तु प्रत्युत मरणाय एवं भवतोऽपि संयमगुणान्वेषणबुध्या अरण्यवसनं तत्र श्रेयसे सम्पद्यते, प्रत्युताहाराभावेनार्त्तध्यानादिपरिणामसम्भवात् कन्द-मूल-फलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति ।। आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति ? कथं वा न भवन्ति ? इति उच्यते[भा. ३१७७] भण्णति उवेच्च गमने, इति दोसा दप्पदो य जहि गंतुं । कम गहण भुंजणे या, न होंति दोसा अदप्पेणं ।।
वृ- भण्यतेऽत्र प्रतिवचनम् - यदि 'उपेत्य' आकुट्टिकया साड्यां गच्छति, 'दर्पतश्च' गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुङ्क्ते वा तत्रानन्तरोक्ता दोषा मन्तव्याः । अथ 'क्रमेण' गृहपरिपाट्या सङ्घडिगृहं प्राप्तः ततस्तत्र ग्रहणं भोजनं वा कुर्वाणस्य न दोषा भवन्ति । 'अदर्पेण वा' पुष्टालम्बनेन सङ्घडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति । इदमेव भावयति[भा. ३१७८ ] पडिलेहियं च खेत्तं, पंथे गामे व भिक्खवेलाए । गामानुगामियम्मिय, जहि पायोग्गं तहिं लभते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org