________________
उद्देशक : १, मूलं-४७, [भा. ३१७८ ]
२४१
वृ-मासकल्पस्य वर्षावासस्य वा योग्यं क्षेत्रं प्रत्युपेक्षितम्, तत्र च गन्तुं प्रस्थितानां 'पथि मार्गे वर्त्तमानानां यद्वा तस्मिन्नेव ग्रामे प्राप्तानां सङ्घडिरुपस्थिता, उभयत्रापि यदि भिक्षावेलायां भक्तपानं प्राप्यते तदा कल्पते गन्तुम् । ग्रामानुग्रामिकेऽप्यनियतविहारे विहरतां यत्र भिक्षावेलायां प्रायोग्यं प्राप्यते तत्र ग्रहीतुं लभते नान्यत्रेति ॥ अथैनामेव गाथां व्याचष्टेवासाविहारखेत्तं वच्चंताऽनंतरा जहिं भोजं । अत्तठिताण तहिं भक्खमडंताण कप्पेज्जा ।।
[भा. ३१७९]
वृ-वर्षाविहारो नाम-वर्षावासस्तव्यायोग्यं क्षेत्रं व्रजताम् 'अन्तरा' पथि यत्र 'भोज्यं' सङ्खडी भवति । आह च चूर्णिकृत्-भोजं ति वा संखडि त्ति वा एगडं । 'तत्र' ग्रामादौ 'आत्मार्थस्थितानां' स्वार्थमवस्थितानां न तु सङ्घडिनिमित्तं गृहपरिपाट्या च भिक्षामटतां सङ्घडिं गत्वा भक्त-पानं ग्रहीतुं कल्पते । कुतः ? इति चेद् उच्यते
[भा. ३१८० ] नत्थि पवत्तणदोसो, परिवाडीपडित मो न याऽऽइन्ना । परसंसकं अविलंबियं च गेण्हंति अनिसन्ना ।।
वृ- नास्ति तत्र सङ्खड्यां गमने प्रवर्त्तनादोषः, 'परिपाट्यापतितं' प्राप्ताबसरं यतस्तत्र भक्तपानं गृह्णाति, न तदेवैकं गृहमुद्दिश्य गत्वेति । “मो" इति पादपूरणे । न च सा सङ्घडी 'आकीर्णा' जनाकुला, 'परसंसृष्टं च' गृहस्थादिपरिवेषणनिमित्तं हस्तो वा मात्रकं वा संसृष्टम्, अविलम्बितं चतत्रानिषण्णाः सन्तो गृह्णन्ति, भिक्षावेलायां गमनात्तत्क्षणादेव भक्त-पानं लभन्ते, नपुनरुपविष्टाः प्रतीक्षन्ते इति भावः ॥ किञ्च
[भा. ३१८१] संतऽनने वऽवराधा, कज्जम्मि जतो न दोसवं जेसु । जो पुन जतनारहितो, गुणो वि दोसायते तस्स ।।
वृ- 'सन्ति' विद्यन्ते 'अन्येऽपि' अनेषणीयग्रहणादयोऽपराधा येषु 'कार्ये' ज्ञानादौ यतः ' प्रयत्नं कुर्वन् प्रतिसेवमानोऽपि न दोषवान् भवति, यः पुनर्यतनारहितः प्रवर्त्तते तस्य गुणोऽपि 'दोषायते' दोष इव मन्तव्य इत्यर्थः । इदमेव सविशेषमाह
[भा. ३१८२ ] असढस्सऽ प्पडिकारे, अत्थे जततो न कोई अवराधो । - सप्पडिकार अजतो, दप्पेण व दोसु वी दोसो ॥
वृ- 'अशठस्य' राग-द्वेषरहितस्य 'अप्रतिकारे' प्रतिसेवनां बिना नास्त्यन्यो यस्य प्रतिकार इत्येवंलक्षणे 'अर्थे' सङ्घडिगमनादौ ' यतमानस्य' यतनां कुर्वतो न कोऽप्यपराधो भवति । यस्तु 'सुप्रतिकारे' परिहर्त्तु शक्येऽर्थे 'अयतः' न यतनां करोति दर्पेण वा प्रतिसेवते तस्य 'द्वयोरपि' अयतना-दर्पयोर्दोषो भवति, कर्मबन्ध इत्यर्थः ॥ यत एवमतः
[भा. ३१८३]
निद्दोसा आदिन्ना, दोसवती संखडी अणाइन्ना ।
सुत्तमणाइन्नाते, तस्स विहाणा इमे होंति ।
वृ- 'निर्दोषा' वक्ष्यमाणदोषरहिता सङ्घडी 'आचीर्णा' साधूनां गन्तुं कल्पनीया । या तु दोषवती सा अनाचीर्णा । तत्र सूत्रमनाचीर्णायामवतरति, न तत्र सङ्घडिप्रतिज्ञया रात्रौ वा विकाले वा गन्तव्यम् । ‘तस्याश्च' अनाचीर्णाया अमूनि ' विधानानि' भेदा भवन्ति ॥ तानेवाह
19 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org