________________
२४२
बृहत्कल्प-छेदसूत्रम् -२-१/४७
[भा. ३१८४] जावंतिया पगणिया, सक्खित्ताऽखित्त बाहिराऽऽइण्णा । अविसुद्धपंथगमना, सपच्चवाता य मेदाय ॥
वृ- 'यावन्तो भिक्षाचरा आगमिष्यन्ति तावतां दातव्यम्' एवमादिगणनया यत्र दीयते सा यावन्तिका । ‘दश शाक्या दश परिव्राजका दश श्वेतपटाः' एवमादिगणनया यत्र दीयते सा प्रगणिता । "सक्खेत्ते 'ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी । “अक्खेत्ते 'ति सचित्तपृथिव्यादावक्षेत्रेअस्थण्डिले स्थिता । " बाहिर "त्ति सक्रोशयोजनक्षेत्रबहिर्वर्त्तिनी । 'आकीर्णा नाम' चरकपरिव्राजकादिभिराकुला । अविशुद्धेन पृथिव्यप्कायादिसंसक्तेन पथा गमनं यस्यां साऽ विशुद्धपथगमना । तथा यत्र स्तेन श्वापदादयो दर्शनादिविषयाश्च प्रत्यपाया भवन्ति सा सप्रत्यपाया । साच जीवितभेदाय चरणभेदाय वा भवेदिति द्वारगाथासमासार्थः ।। अथैनामेव प्रतिपदं विवृणोति[भा. ३१८५ ] आचंडाला पढमा, बितिया पासंडजाति - नामेहिं । सक्खेत्ते जा सकोस, अक्खित्ते पुढविमाईसु ।।
वृ- 'प्रथमा' यावन्तिकी सा 'आचण्डाला' यावन्तः केचन तटिका- कार्पटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालस्तावतां दातव्यमिति लक्षणा । 'द्वितीया' प्रगणिता प्रकर्षेण पाषण्डिनो
नाम्ना वा गणयित्वा यत्र दीयते । तत्रजातिं प्रतीत्य गणना यथा-दश भौता दश भागवता दश श्वेताम्बरा इत्यादि । नाम प्रतीत्य गणना यथा-अमुकः श्वेतपटोऽमुकश्च रक्तपट इत्यादि । स्वक्षेत्रसङ्घडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति । अक्षेत्रसङ्घडी तु या सचित्तपृथिवीवनस्पतिकायादिष्वनन्तरं परम्परं वा प्रतिष्ठिता ।। एतासु गच्छतः प्रायश्चित्तमाह
[भा. ३१८६] जावंतिगाए लहुगा, चउगुरु पगणीए लहुग सक्खेत्ते । मीसग - सचित्त - Sनंतर - परंपरे कायपच्छित्तं ॥
वृ- यावन्तिकायां चतुर्लघवः । प्रगणितायां चतुर्गुरवः । स्वक्षेत्रसङ्खड्यां गच्छतश्चतुर्लघु । अक्षेत्रसङ्खड्यां मिश्र- सचित्ता - ऽनन्तर- परम्परप्रतिष्ठितायां कायप्रायश्चित्तम् । तत्र पृथिव्यादिषु प्रत्येकवनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपञ्चकम्, अनन्तरप्रतिष्ठितायां मासलघुः एतेष्वेव सचित्तेषु परम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतुर्लघुः अनन्तवनस्पतिष्वेतान्येव प्रायश्चित्तानि गुरुकाणि कर्त्तव्यानि ॥
अथ सक्रोशयोजनबहिर्वर्त्तिनीप्रभृतिषु सङ्घडीषु प्रायश्चित्तमाह
[भा. ३१८७ ] बहि वुड्डि अद्धजोयण, गुरुगादी सत्तहिं भवे सपदं । चरगादी आइण्णा, चउगुरु हत्थाइभंगो य ॥
वृ- क्षेत्राद् बहि सङ्खड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजनवृध्या चतुर्गुरुकमादौ कृत्वा सप्तभिर्वृद्धिभिः 'स्वपदं' पाराञ्चिकं भवेत् । तद्यथा- क्षेत्राद् बहिरर्द्धयोजने चतुर्गुरु, योजने षड्लघु, सार्द्धयोजने षड्गुरु, द्वयोर्योजनयोश्छेदः, अर्द्धतृतीययोजनेषु मूलम्, त्रिषु योजनेषु नवमम्, अर्द्धचतुर्थयोजनेषु पाराञ्चिकम्। तथा या चरक परिव्राजक कार्पटिकादिभिराकुलासा आकीर्णा तां गच्छतश्चतुर्गुरुकम् । तत्र चातिसम्मर्देन हस्त-पाद-पात्रादिभङ्गो भवेत् ॥ अथाविशुद्धपथगमनादीनि द्वाराणि व्याख्याति
[भा. ३१८८ ] काएहऽविसुद्धपहा, सावय-तेना पहे अवाया उ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org