________________
३८४
बृहत्कल्प-छेदसूत्रम् - २-३/८६
ays - विवन्नेहिय, तहिं तहिं बंधते कजे ॥
वृ- यद्यकृत्स्नस्य चर्मणो ग्रहणं कर्त्तव्यं तत उपानहावष्टादश भागान् वक्ष्यमाणक्रमेण कृत्वा तैः खण्डैरेकपुटैर्विवर्णै चशब्दादेकबन्धैश्च यत्र यत्र पादप्रदेशे आबाधा तत्र तत्र कार्ये समुत्पन्ने बध्नीयात् ।। कथं पुनरष्टादश खण्डानि भवन्ति ? इत्युच्यते
[भा. ३८७५ ] पंचंगुल पत्तेयं, अंगुट्ठमज्झे य छट्ठ खण्डं तु । सत्तममग्गतलम्मी, मज्झऽट्ठम पहिया नवमं ॥
वृ- इहैक्य पादस्य पञ्चानामङ्गुलीनां बन्धनाय प्रत्येकमेकैकं खण्डं कर्त्तव्यम्, अङ्गुष्ठस्य चाधः षष्ठं खण्डम्, अग्रतले सप्तमम्, मध्यतलेऽष्टमम्, पार्ष्णिकायां नवमम्, एवं द्वितीयस्याप्युपानहो नव खण्डानि सर्वाण्यष्येवमष्टादश खण्डानि भवन्ति । एवं परेणोक्ते सति सूरिराह[भा. ३८७६ ] एवइयाणं गहणे, मासो मुच्द्यंति होति पलिमंथो । बितियपदे घेप्पमाणे दो खंडा मज्झपडिबंधा ॥
वृ- एतावतां खण्डानां ग्रहणे मासलघु प्रायश्चित्तम्, असामाचारीनिष्पन्नमित्यर्थः । मुच्यमानेषु चैतावत्सु खण्डेषु महान् सूत्रा - ऽर्थयोः परिमन्थो भवति । आह-यद्येवं ततः कियन्ति खण्डानि क्रियन्ते ? इत्याह-द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिबद्धे द्वे खण्डे कर्त्तव्ये, मध्यभागात् त्रोटयित्वा खण्डद्वयं विधाय मध्ये वर्धादिना बन्धनीयमित्यर्थः । अत्र पूर्वार्द्धस्येदं पाठान्तरम्"मुचंते पलिमंथो, जत्तियमित्तं तु तत्तिए गहणं ।" अष्टादश खण्डानि मुञ्चति साधोर्महानू पलिमन्थः, ततो यावन्मात्रपरिमन्थाय भवति तावन्मात्रं ग्रहीतव्यम् । उत्तरार्द्धं प्राग्वत् ॥ अथाष्टादशानां खण्डानां करणे कीदृशः परिमन्थो भवति ? इत्याहपडिलेहा पलिमंथो, नदिमादुदए य मुंच बंधते ।
[भा. ३८७७]
।
सत्थफिडनेन तेना, अंतरवेधो य डंकणता ।।
वृ- यावदष्टादश खण्डानि द्विसन्ध्यं प्रत्युपेक्षते तावत् सूत्रार्थयोः परिमन्थो भवति । नद्याद्युदकमवतितीर्षुश्च यावदष्टादश खण्डानि मुञ्चति उत्तीर्णश्च यावत् तानि भूयोऽपि बध्नाति तावत् सार्थात् स्फिटति, स्फिटितश्च स्तेनानां गम्यो भवति । बहूनां खण्डानामन्तरेषु च कण्टकैर्विध्येत । बहुबन्धघर्षेण वा पादयोर्डको भवेत् । यत एवमतः पूर्वोक्तनीत्या खण्डद्वयं विधेयम् ।। कथं पुनस्तद् बन्धनीयम् ? इत्याह
[भा. ३८७८ ] तज्जायमतज्जायं, दुविहं व बंधनं तस्स । तज्जायम्मि वि लहुओ, तत्थवि आणादिणो दोसा ।।
"
बृ- 'तस्य' चर्मखण्डद्वयस्य तज्जातं वा बन्धनं भवति अतज्जातं वा बन्धनं भवति । तज्जातं नाम तस्मिन् चर्मणि जातम् वर्धादिबन्धनमित्यर्थः तद्विपरीतं दवरकादिकमतज्जातम् । एतच्च द्विविधं त्रिविधं वा भवति, द्वौ वा त्रयो वा बन्धा दातव्या इति भावः । अत्र प्रथममतज्जातेन दवरकादिना बन्धनीयम् । यदि तज्जातेन वर्धादिना बध्नाति ततो मासलघु, तत्राप्याज्ञादयो दोषा भवन्ति ॥
-सू. (८७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइं वत्थाइं धारित्तएवा परिहरित्तए वा । कप्पइ निग्गंथाण वा निग्गंधीण वा अकसिणाइं वत्थाइं धारित्तए वापरिहरित्तए वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org