________________
उद्देशकः३, मूलं-८५, [भा. ३८६९]
३८३ वा चर्म साधुना स्वयं न कर्त्तव्यम्, अन्येन न कारापयितव्यम्, अन्यस्य कुर्वतो नानुमोदना कर्तव्या, किन्तु यत्पूर्वमेव गृहस्थैर्यथाभावेन कृतं तस्मिन् ‘अधिकारः' प्रयोजनम्, तस्य ग्रहणं कर्तव्यमिति भावः ॥ अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्ति? इति उच्यते[भा.३८७०] खुलए एगो बंधो, एगो पंचंगुलस्स दोनेते ।
खुलए एगो अंगुट्ठ बितिय चउरंगुले ततितो॥ वृ- 'खुलके' घुण्टके एको वध्रबन्धो भवति, ‘एकस्तु' द्वितीयो बन्धः ‘पञ्चाङ्गुलस्य' चतसृणामङ्गुलीनामङ्गुष्ठस्य चेत्यर्थः, एतौ द्वौ बन्धौ मन्तव्यौ । यदा तु त्रयो बन्धा भवन्ति तदा खुलके एकः अङ्गुष्ठे द्वितीयः चतसृणामङ्गुलीनां तृतीयः ।। अथ स्वयङ्करणादिषु प्रायश्चित्तमाह[भा.३८७१] सयकरणे चउलहुगा, परकरणे मासियं अनुग्घायं ।
अनुमोदने वि लहुओ, तत्थ वि आणादिणो दोसा ॥ वृ-स्वयं यदि चर्म करोति तदा चतुर्लघवः । अथ परेण कारयति तदा मासिकमनुद्धातम्, मासगुरुकमित्यर्थः । अनुमोदनायां मासलघु । तत्रापि स्वयङ्करणादावाज्ञादयो । तत्रापि स्वयङ्करणादावाज्ञादयो दोषा उड्डाहश्च भवति, तथाहि-तं संयतं स्वयमेव चर्म कुर्वाणं दृष्ट्वा लोको ब्रवीति-अहो ! चर्मकरोऽयमिति । अथ पूर्वकृतं न लभ्यते ततोऽनुमोदनया गृह्णीयात् । कथम्? इति चेद् उच्यते-यदि कोऽपिब्रूयात्-अहं ते उपानही करोमि? ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठेत् । अथानुमोदनया न प्राप्यते ततोऽन्येन कारयेत् । एवमप्यलाभे आत्मनाऽपि यतनया कुर्यात् ॥
मू. (८६) कप्पइ निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइंधारित्तए वा परिहरित्तए वा॥
वृ-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा (अकृत्स्नानि) चर्माणि धारयितुं वा परिहर्तुं वा इति सूत्रार्थः॥अथ भाष्यम्[भा.३८७२] अकसिणचम्मग्गहणे, लहुओ मासो उ दोस आणादी।
बितियपद घेप्पमाणे, अट्ठारस जाव उक्कोसा। कृयद्यपि सूत्रेऽनुज्ञातं तथापि न कल्पते अकृत्स्नचर्म प्रतिग्रहीतुम् । यदि गृह्णाति ततो लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः। द्वितीयपदे तु' पूर्वोक्तैरध्वादिभि कारणैरकृत्स्ने गृह्यमाणे विधिरभिधीयते। तत्र नोदकः प्राह-यद्यकृत्स्नं ग्रहीतुंकल्पते ततो द्वयोरुपानहोरुत्कर्षतोऽष्टादश खण्डानि यावत् कर्तव्यानि ॥ इदमेव व्याचष्टे[मा.३८७३] अकसिणमट्ठारसगं, एगपुड विवन्न एगबंधं च ।
तं कारणम्मि कप्पति, निकारण धारणे लहुओ॥ -अकृत्स्नं नाम अष्टादशकम् अष्टादशभिः खण्डैः कृतम् १ तदपि 'एकपुटम्' एकतलं २ 'विवण' न वर्णान्यं ३ 'एकबन्धं च' न व्यादिबन्धनोपेतम् ३, एभिश्चतुर्मि पदैर्यथाक्रम सकलप्रमाण-वर्ण-बन्धनैः कृत्स्नता परिहृता । तदेवंविधमकृत्स्नं चर्म कारणे धारयितुं कल्पते । अथ निष्कारणे धारयति ततो लघुमासः । एषा पुरातना गाथा ॥ अथैना व्याख्याति[भा.३८७४] जइ अकसिणस्स गहणं, भाए काउं कमेण अट्ठदस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org