________________
३८२
बृहत्कल्प-छेदसूत्रम् -२-३/८५ पर्यटतः कस्यापि पादतलं घृष्टं तत उपानही पिनह्य पर्यटति॥ [भा.३८६५] कुट्ठिस्स सक्करादीहि वा वि भिन्नो कमो मधूला वा।
बालो असंफरो पुन, अज्जा विहि दोच्च पासादी ।। वृकुष्ठिनः सम्बन्धी शोणित-पूयेन 'भिन्नः' स्फटितः क्रमः शर्करा-कण्टकादिभिराक्रान्तो महती पीडामुपजनयति, ‘मधूला वा' पादगण्डं कस्यापि समजनि ततः क्रमणिके बध्नाति । बालो वा कश्चिद् ‘असंस्फरः' असंवृतो यत्र तत्र पादं मुञ्चन् कण्टकादिभिरुपयेत्, अतोऽसौ क्रमणिके परिधाप्यते । आर्या वा 'विधम्' अध्वानं नेतव्याः, तत्र च “दोच्च"त्ति चौरादिभयम्, ततो वृषभाः क्रमणिकाः पिनह्य पन्थानं मुक्त्वा पार्श्वस्थिता गच्छन्ति, आदिशब्दात् सर्वाणि वा तत्रोत्पथेन व्रजन्ति । यो वा चक्षुषा दुर्बलः स वैद्योपदेशेनोपानही पिनाति, यतः पादयोरभ्यगनोपानद्वन्धनादिपरिकर्म यत् क्रियते तत् चक्षुष उपकाराय परिणमते। यत उक्तम्
दन्तानामअनं श्रेष्ठ, कर्णानां दन्तधावनम् ।
शिरोऽभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुषोः॥ कारणजातद्वारमाह[भा.३८६६] कुलमाइकज दंडिय, पासादी तुरियधावणट्ठा वा ।
कारणजाते वऽन्ने, सागारमसागरे जतना ।। वृ-कुलादिषु-कुल-गण-सचविषयेषु कार्येषु दण्डिकावलगनार्थम्, पावस्थितैः आदिशब्दात् पुरः पृष्ठतो वा गच्छद्भिः , त्वरितं वा धावनार्थम्, कारणजाते वा अन्यस्मिन्' आगाढे समुत्पन्ने उपानहः परिभोक्तव्याः । तत्र च सागारिका-ऽसागारिकविषया यतना, यत्र सागारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः, यत्र पुनः सागारिका उड्डाहं कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति भावः ॥ एवमध्वादिषु कारणेषु कृत्स्नचर्मणो ग्रहणे प्राप्ते विधिमाह[भा.३८६७] पंचविहम्मि विकसिणे, किण्हग्गहणं तु पढमतो कुजा।
किण्हम्मि असंतम्मि, विवनकसिणं तहिं कुजा ।। कृपञ्चविधे वर्णकृत्स्ने प्रथमतः कृष्णवर्णकृत्स्नग्रहणं कुर्यात् । ततः कृष्णे वर्णकृत्स्ने असति' अलभ्यमाने लोहितादिवर्णकृत्स्नमपि गृह्णीयात् । तच्च कृत्स्नमूष-तैलादिभिः 'विवण विरूपवर्ण कुर्याद् यथा लोको नोड्डाहं कुरुते आत्मनो वा न तत्र रागो भवति । [भा.३८६८] किण्हं पि गेण्हमाणो, झुसिरग्गहणं तु वजए साहू।
बहुबंधनकसिणं पुन, वज्जेयव्वं पयत्तेणं ॥ -कृष्णवर्णमपि गृहन् शुषिरग्रहणं साधुः प्रयलतो वर्जयेत् । अत्र पाठान्तरम्-“कसिणं पिगिण्हमाणो "त्ति, कृत्स्नं सकलकृत्स्नंप्रमाणकृत्स्नंवा द्वितीयपदेगृहन्शुषिरग्रहणं साधुर्वर्जयेत्। यत्तु बहुबन्धनकृत्स्नं तत् प्रयत्लतो वर्जयितव्यम् ।। अथ किं तद् बन्धनम् ? इत्याशझ्याह[भा.३८६९] दोरेहि व वझेहि व, दुविहं तिविहं व बंधणं तस्स।
अनुमोदन कारावण, पुवकतम्मिं अधीकारो॥ वृ-दवकैर्वा वधैा द्विविधं त्रिविधं वा बन्धनं तस्य चर्मणो भवति, द्वौ वा त्रयो वा बन्धा दातव्या इत्यर्थः । एवंविधंबन्धनकृत्स्नमनुज्ञातम्, न चतुरादिबहुबन्धनबद्धम् । तथा कृत्स्नमकृत्स्नं
www.jainelibrary.org
.
आर
Jain Education International
For Private & Personal Use Only