SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-८५, [भा. ३८५९] ३८१ वृ-पूर्वतावद् ‘आदया' निर्दयत्वं भूतेषुमनसि सजातं भवति, ततः क्रमयोः क्रमणिके बध्नाति। तदभ्यासाच्च सुदयालोरपि प्रायो निर्दयतैव भवति ।। निरन्तरद्वारमाह[भा.३८६०] अवि यंऽवखुजपादेण पेल्लितो अंतरंगुलगतो वा । मुच्चेज कुलिंगादी, न य कमणीपेल्लितो जियती ।। वृ-कुशब्दस्येषदर्थवाचकतया असम्पूर्णानि लिङ्गानि इन्द्रियाणि यस्यासौ कुलिङ्गी-विकलेन्द्रियः स आदिशब्दाद् मण्डूक्यादिश्च अनुपानत्कस्य पादेन प्रेरितः, 'अपि' इति सम्भावनायाम्, सम्भाव्यतेऽयमर्थ-यदाम्रकुब्दं पादतलमध्यंतत्र तथा अन्तराङ्गुलम्-अङ्गुलीनामङ्गुष्ठस्य चापान्तरालं तत्र वा गतः सन् ‘मुच्येत' न म्रियेत, सोपानत्कस्य तु निरन्तरभूमिस्पर्शिनीभिक्रमणीभि प्रेरितःआक्रान्तो न जीवति, अवश्यं मरणमाप्नोतीत्यर्थः ॥ भूतोपघातद्वारमाह[भा.३८६१] किह भूयानुवघातो, न होहिती पगतिपेलवतनूणं । सभराहि पेल्लियाणं, कक्खडफासाहि कमणीहिं॥ वृ-'कथं' केन प्रकारेण 'भूतानां प्राणिनां प्रकृत्या-स्वभावेनैव पेलवतनूनाम्-अध्ढशरीराणां 'सभारामि' पुरुषभाराक्रान्ताभि कर्कशस्पर्शाभिः क्रमणीभिः प्रेरितानामुपघातो न भविष्यति? भविष्यत्येवेत्यर्थः । यत एते दोषाअतः क्रमणिका न परिघातव्याः। कारणे तुप्राप्ते परिदध्यादपि। किं पुनस्तत् कारणम् ? इत्याह[भा.३८६२] विह अतराऽसहु संभम, कोट्ठाऽरिस चक्खुदुब्बले बाले । अज्जा कारणजाते, कसिणग्गहणं अनुन्नायं ।। वृ-विहं-अध्वा, अतरः-ग्लानः, असहिष्णुनाम-राजादिदीक्षितः सुकुमारपादः, सम्भ्रमः-चौरश्वापदादिसंक्षोभः, कुष्ठरोगी अर्शोरोगी चक्षुषा वा दुर्बलः कश्चिद् भवति, बालो वा यदि यत्र तत्र पादौ निक्षिपति, आर्या वा अध्वानं नीयन्ते, कारणजातं वा-कुल-गण-सङ्घविषयमुपस्थितम्। एतेषु कृत्स्नस्य चर्मणो ग्रहणमनुज्ञातमिति द्वारगाथासमासार्थः ॥ अथैनामेव विवृणोति[भा.३८६३] कंटा-ऽहि-सीयरक्खट्टता विहे खवुसमादि जा गहणं । ओसहपान गिलाणे, अहुणुट्टियभेसयट्ठा वा ।।। वृ-'विहे' अध्वनि प्रतिपद्यमाने कण्टकस्य अहेः शीतस्य च रक्षार्थमङ्गुलिकोशकं खल्लकादि वा गृह्णन्ति । किं बहुना ? खपुसामादौ कृत्वा यावदर्धजला-समस्तजङ्घयोरपि ग्रहणम् । तथा ग्लान औषधपानं कृत्वा वैद्योपदेशेन पृथिव्यां पादौ न स्थापयति । अधुनोत्थितो वा ग्लानः क्रमयोः क्रमणिके आविध्यति, मा शीतानुभावेन भक्तं न जरिष्यतीति कृत्वा । ग्लानस्य वा भेषजार्थं त्वरितं ग्रामान्तरं गन्तव्यम् ततः क्रमणिकाः पिनद्धव्याः॥ [भा.३८६४] अरिसिल्लस्स व अरिसा, मा खुब्भे तेन बंधते कमणी। असहुमवंताहरणं, पादो घट्ठो तु गिरिदेसे ।। वृ- अर्शोवतः पादतलदौर्बल्यादर्शासि मा क्षुभ्येरनिति कृत्वा क्रमणिके असौ बध्नाति । असहिष्णुर्नाम-मार्गे गच्छत्रुपानद्भिर्विना गन्तुं न शक्नोति यदि गच्छति ततः पादाभ्यां रुधिरं परिगलति; अत्र अवन्तीसुकुमारोदाहरणं भवति, तचाऽऽवश्यकाद् विज्ञेयम्; स क्रमणिके बध्नीयात् । उदका-ऽग्निस्तेन-श्वापदादौ वा सम्भ्रमे क्रमणिकाः परिभोक्तव्याः । गिरिदेशे वा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy