________________
उद्देशक :
: ३, मूलं - ८७, [भा. ३८७९]
[भा. ३८७९] पडिसिद्धं खलु कसिणं, चम्मं वत्थकसिणं पि नेच्छामो । अववादियं तु चम्मं, न वत्थमिति जोगनाणत्तं ।।
वृ-प्रतिषिद्धं खल्वनन्तरसूत्रे चर्मकृत्स्नंम्, यथा च तन्न कल्पते तथा वस्त्रकृत्सनमपि नेच्छामः प्रतिग्रहीतुम् । यद्वा पूर्वसूत्रे चर्म आपवादिकमुक्तम्, इदं तु वस्त्र नापवादिकं किन्तु सदैव साधुभिः परिभुज्यमानत्वेनौत्सर्गिकम्, अत इदं प्रतिपक्षतया सूत्रमारभ्यते इति योगस्य-सम्बन्धस्य नानात्वंप्रकारान्तरतेत्यर्थः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या "नो कप्पइ"त्ति आर्षत्वादेकवचनम्, नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'कृत्स्नानि' सकलकृत्स्नादिरूपाणि वस्त्रणि 'धारयितुं वा' परिग्रहे धर्त्तु 'परिहर्तु वा' परिभोक्तुम्, अकृत्स्नानि तु कल्पन्त इति सूत्रसङ्क्षेपार्थः ॥ अथ नियुक्ति-भाष्यविस्तरः
[भा. ३८८० ] कसिणस्स उ वत्थस्सा, निक्खेवो छव्विहो तु कातव्वो । नाठवणा दविए, खेत्ते काले य भावे य ॥
३८५
वृ- कृत्स्नस्य वस्त्रस्य निक्षेपः षड्विधः कर्त्तव्यः । तद्यथा - नामकृत्स्नं १ स्थापनाकृत्स्नं २ द्रव्यकृत्स्नं ३ क्षेत्रकृत्स्नं ४ भावकृत्स्नं ६ चेति । तत्र नाम-स्थापने गतार्थे ।। द्रव्यकृत्स्नमाह[ भा. ३८८१] दुविहं तु दव्वकसिणं, सकलक्कसिणं पमाणकसिणं च । एतेसिंदोहं पी, पत्तेय परूवणं वोच्छं ॥
वृ- 'द्विविधं' द्विप्रकारं द्रव्यकृत्स्नम्, तद्यथा-सकलकृत्स्नं प्रमाणकृत्स्नं चेति । एतयोर्द्वयोरपि 'प्रत्येकं' पृथक् प्ररूपणां वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति
[भा. ३८८२ ] घन मसिणं निरवहयं, जं वत्थं लब्भते सदसियागं । एतं तु सकलकसिणं, जहन्नगं मज्झिमुक्कोसं ॥।
वृ- 'घनं' तन्तुभिः सान्द्रं 'मसृणं' सुकुमारस्पर्श 'निरुपहतम्' अञ्जन- खञ्जनादिदोषरहितम्, एवंविधं यद् वस्त्र सदशाकं लभ्यते एतत् सकलकृत्स्नमुच्यते । तच जघन्यं मध्यममुत्कृष्टं वा ज्ञातव्यम् । जघन्यं मुखपोतिकादि, मध्यमं पटकादि, उत्कृष्टं कल्पादि ॥ वित्थारा-ऽऽयामेणं, जं वत्थं लब्भए समतिरेगं ।
[ भा. ३८८३]
एयं पमाणकसिणं, जहन्नयं मज्झिमुक्कोसं ॥
वृ-विस्तारश्च पृथुत्वं आयामश्च दैर्ध्य विस्तारा ऽऽयामम्, द्वन्द्वैकवद्भावः, तेन, यद् वस्त्र यथोक्तप्रमाणतः समतिरिक्तं लभ्यते एतत् प्रमाणकृत्स्नं भण्यते । तच्च जघन्य-मध्यमोत्कृष्टभेदात् त्रिविधं प्राग्वद् द्रष्टव्यम् || क्षेत्र कृत्स्नमाह
[भा. ३८८४]
वत्थ जम्मि सम्मि दुल्लहं अच्चियं व जं जत्थ । तं खित्यं कसिणं, जहन्नयं मज्झिमुक्कोसं ॥
वृ- यद् वस्त्र यस्मिन् देशे दुर्लभम्, यत्र वा यद् 'अर्चितं' सुमहार्धम्, यथा- पूर्वदेशजं वस्त्र लाटविषयं प्राप्य महार्घ्यम्, तत् क्षेत्रयुतं कृत्स्नमुच्यते, क्षेत्रकृत्स्नमित्यर्थः । तदपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥ कालकृत्स्नमाह
[भा. ३८८५] जं वत्थ जम्मि कालम्मि अग्घितं दुल्लभं व जं जत्थ ।
19 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org