________________
१८९
उद्देशक ः १, मूलं-४२, [भा. २९२०] कृशीभवन्तीत्यर्थः तद् नन्दि । अथवा येनोपयुक्तेन न दीना जायन्ते तदपि निरुक्तिवशाद् नन्दि । अत्र पाठान्तरम्-"जायंति नंदिया व"त्ति नन्द्या-ज्ञान-दर्शन-चारित्रात्मिकया समृध्या युक्ताःसाधवो यतस्तेनद्रव्येणजायन्तेअतस्तस्य नन्दिरिति समयतः संज्ञा' आगमतः परिभाषा।। तच्च द्रव्यं द्विविधम्, तद्यथा[भा.२९२१] परिनिट्ठिय जीवजढं, जलयं थलयं अचित्तमियरंच ।
परित्तेतरं च दुविहं, पानगजयणं अतो वोच्छं। वृ-द्विधा द्रव्यम्-परिनिष्ठितं जीवविप्रमुक्तं च । परिनिष्ठितं नाम-यत् परार्थमचित्तीकृतम् । जीवविप्रमुक्तं तु-साध्वर्थमचित्तीकृतम्, आधाकर्मेति ह्रदयम् । आह च चूर्णिकृत्-परिनिट्टियं तिजंपरकडमचित्तं, जीवजढं ति आहाकम्मं । यद्वा द्विविधंद्रव्यम्-जलजंस्थलजंचेति ।अथवा अचित्तेतरभेदाद् द्विधा । तत्राचित्तं नाम-यद् न परार्थमचित्तीकृतं नापि संयतार्थं केवलमायुः क्षयेणाचित्तीभूतम्। तथाचाहचूर्णिकृत्-अचित्तंतिजनाविपरट्ठाए अचित्तीभूयं, नाविसंजयट्ठाए, केवलं आउक्खएण अचित्तंति । यत् पुनरायुर्धारयति तत् सचित्तम् । अथवा 'परीत्तं' प्रत्येकम् 'इतरद्' अनन्तमिति वा द्विविधम् । एवमादिकं द्विविधं द्रव्यमसंस्तरणे ग्रहीतव्यम् । तदेवमुक्ता तावदाहारयतना । अथ पानकयतनामत ऊर्द्धव वक्ष्ये ॥ यथाप्रतिज्ञातमेव निर्वाहयति[भा.२९२२] तुवरे फले अपत्ते, रुक्ख-सिला-तुप्प-मद्दनाईसु ।
पासंदणे पवाए, आयवतत्ते वहे अवहे ।। कृ-अध्वनिवर्तमानैः कालिकादिप्राशुकपानकाप्राप्तावीशानिपानकानि ग्रहीतव्यानि। तद्यथातुवरफलानि-हरितकीप्रभृतीनितुवरपत्राणि-पलाशपत्रादीनितैः परिणामितंपानकंप्रथमतो ग्राह्यम्। तथा 'रुक्खे"त्ति वृक्षकोटरे कटुकफल-पत्रादिपरिणामितम्, एवंविधस्याभावे “सिल''त्ति सिलाजतुभावितम्, तदभावे "तुप्प"त्ति मृतक-केवर-वशा-घृतादिभि परिणामितम्, तदप्राप्ती “मद्दणाईसु"त्तिहस्त्यादिमर्दनेनाक्रान्तम्, ततः प्रपातोदकम्, प्रपातो नाम-यत्र पर्वतात् पानीयं निपतति, यथा उज्जयन्तादिगिरौ, तदभावे आत्पेन यत् तप्तं तत् प्रथमम् 'अवहं' अवहमानकं पश्चात् तदेव 'वहं' वहमानकं ग्राह्यम् । गाथायां बन्धानुलोम्याद् वहपदस्यपूर्वं पाठ इति । अथ “मद्दणाईसु"त्ति पदं व्याचष्टे[भा.२९२३] जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य ।
उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ।। वृ-'जड्डः' हस्ती, खगो नाम-एकश्रङ्ग आटव्यतिर्यग्विशेषः, 'गो-महिषौ' प्रसिद्धौ, गवयः' गवाकृतिराटव्यजीवविशेषः, सूकर-मृगौ' प्रसिद्धौ । एतैर्जड्डादिभिर्मर्दनेन परिणामितं पानकं यथाक्रममध्वनि ग्रहीतव्यम्। अथ उत्परिपाट्या' यथोक्तक्रममुल्लङ्घय ग्रहणं करोति ततश्चत्वारो मासा लघुका भवेयुः॥
मू. (४३) नऽन्नत्थ एगेणं पुव्वपडिलेहिएणं सेज्जा-संथारएणं ॥
वृ“न कल्पते रात्रौ वा विकाले वा" इति योऽयं प्रतिषेधः स एकस्मात् पूर्वप्रत्युपेक्षितात् शय्या-संस्तारकादन्यत्र । इहान्यत्रशब्दः परिवर्जनार्थ, यथा-अन्यत्र द्रोण-भीष्माभ्यां, सर्वेयोधाः पराङ्मुखाः। द्रोण-भीष्मौ वर्जयित्वेत्यर्थः । ततश्चैकं शय्या-संस्तारकं विहायापरं किमपि रात्रौ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org