________________
७२
बृहत्कल्प-छेदसूत्रम् -२-१/१९ [भा.२३९५] चंकमणं निल्लेवण, चिट्ठित्ता तम्मि चेव तूहम्मि ।
__अच्छंते संकापद, मज्जण दटुं सतीकरणं ॥ वृ-चक्रमणं निर्लेपनं वा तत्र गृहस्थः कर्तुकामोऽपि साधुं दृष्ट्वा कश्चिदन्यत्र गत्वा करोति, कश्चिच्च तत्रैव तीर्थे साधुसमीपे गत्वा करोति । तथा “चिट्ठित्त"त्ति कश्चिद् गृहस्थः साधुना सह गोष्ठीनिमित्तं स्थित्वा पश्चादन्यत्र गच्छति । एवमधिकरणं भवेत् । तथा दकतीरे तिष्ठति साधौ 'शङ्कापदं' वक्ष्यमाणलक्षणमगारिणां जायते । मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणं भुक्तभोगिनाम्, उपलक्षणत्वादमुक्तभोगिनां च कौतुकमुपजायते॥
अथैनामेव नियुक्तिगाथां विवृणोति[भा.२३९६] अन्नत्य व चंकमती, आयमणऽन्नत्थ वा वि वोसिरइ। .
कोनाली चंकमणे, परकूलाओ वितत्थेइ॥ वृ-कश्चिद् ‘दकतीरेचङ्क्रमणंकरिष्यामि' इत्यभिप्रायेणायातः साधुंदृष्ट्वा ततः स्थानादन्यत्र चक्रम्यते, वाशब्दात् कश्चिदन्यत्र चङ्कम्यमाणः साधु विलोक्य तत्रागत्य चक्रम्येत । एवम् 'आचमनं' निर्लेपनं तत् कर्तुकामः संज्ञां वा व्युष्टुकामः साधुं दृष्ट्वा अन्यत्र गत्वा अन्यतो वा तत्रागत्य निर्लेपयति व्युत्सृजति वा । तथा कश्चिदगारो गन्तुकामः परकूले चक्र्म्यमाणं साधुं निरीक्ष्य “कोनालि"त्ति गोष्ठी तांसाधुना सह करिष्यामीतिमत्वातदर्थं चङ्क्रमणकर्तुपरकूलादपि तत्रागच्छति । सर्वत्र साधुनिमित्तमागच्छन्नागतस्तिष्ठंश्च षट् कायान् विराधयेत् ॥
“अच्छंते संकापयत्ति पदं व्याख्यानयति[भा.२३९७] दग-मेहुणसंकाए, लहुगा गुरुगा उ मूल निस्संके।
दगतूर कोंचवीरग, पघंस केसादलंकारे॥ वृ-साधुंदकतीरे तिष्ठन्तं दृष्ट्वा कश्चिदगारः शङ्कां कुर्यात्-किमेष उदकपानार्थं तिष्ठति? उत मैथुने दत्तसङ्केतां काञ्चिदागच्छन्ती प्रतीक्षते? ।तत्रोदकपानशङ्कायांचतुर्लघु, निशङ्कितेचतुर्गुरु; मैथुनशङ्कायां चतुर्गुरु, निशङ्किते मूलम् । “मज्जण दटुं सईकरणं" ति पदं व्याख्यायते-कोऽपि मज्जनं कुर्वन् तथा कथञ्चिद् जलमास्फालयति यथा 'दकतूर्यम्' उदके मुखादितूर्याणां शब्दो भवति।यद्वा कोऽपिक्रोञ्चवीरकेणजलमाहिण्डते।क्रोञ्चवीरको नाम पेटासहशोजलयानविशेषः। “पघंस"त्तिस्नात्वा पटवासादिभि स्वशरीरं कोऽपि प्रघर्षयति । यद्वा “केसादलंकारे"त्ति केशवस्त्र-माल्या-ऽऽभरणा-ऽलङ्कारैरात्मानमलङ्करोति । एतद् मज्जनादिकं दृष्ट्वा भुक्ता-ऽभुक्तसमुत्थाः स्मृत्यादयो दोषाः ॥ एवं पुरुषेषु भणितम् । अथ स्त्रीषु दोषान् दर्शयति[भा.२३९८] मजणवहणट्ठाणेसुअच्छते इत्थिमं ति गहणादी।
एमेव कुच्छितेतर, इत्थि सविसेस मिहुनेसु ॥ वृ-सपरिग्रहस्त्रीणां वसन्तादिपर्वण्यन्यत्र वायाजलक्रीडायद्वा सामान्यतोमल-दाहोपशमनार्थं स्नानं तद् मज्जनमुच्यते, तस्य जलवहनस्थानेषु स्त्रीणां सम्बन्धिषु तिष्ठन्तं साधुं हटवा तदीयो ज्ञातिवर्गश्चिन्तयति-अस्मदीयस्त्रीणांमज्जनादिस्थाने एष श्रमणः परिभवेन कामयमानोवा तिष्ठति, ततो दुष्टशील इति कृत्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् । याः पुनरपरिग्रहस्त्रियस्ताः ‘कुत्सिताः' रजक्यादयः ‘इतराः' अकुत्सिता ब्राह्मण्यादयः तास्वप्येवमेवात्मपरोभयसमुत्थादयो दोषाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org