________________
उद्देशक : १, मूलं- १९, [भा. २३९८]
'मिथुनेषु' स्त्री-पुरुषयुग्मेषु मैथुनक्रीडया रममाणेषु सविशेषतरा दोषा भवन्ति, ये च चङ्क्रमणादयो दोषाः पूर्वमुक्तासतेऽप्यत्र तथैव द्रष्टव्याः । यत एते दोषा अतो दकतीरेऽमूनि सूत्रोक्तानिपदानि न कुर्यात् ॥
[भा. २३९९] चिट्ठण निसीयणे या, तुयट्ट निद्दा य पयल सज्झाए । झाणाऽऽहार वियारे, काउस्सग्गे य मासलहू ॥
वृ-स्थाने १ निषदने २ त्वग्वर्त्तने ३ निद्रायां ४ प्रचलायां ५ स्वाध्याये ६ ध्याने ७ आहारे ८ विचारे ९ कायोत्सर्गे १० चेति दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येकं मासलघु, असामाचारीनिष्पन्नमिति भावः ॥ अथ निद्रा-प्रचलयोः स्वरूपमाह
७३
[भा. २४००] सुहपडिबोहो निद्दा, दुहपडिबोहो उ निद्दनिद्दा य । पयला होइ ठियस्सा, पयलापयला य चंकमओ ॥
वृ-सुखेन-नखच्छोटिकामात्रेणापि प्रतिबोधो यस्मिन् स सुखप्रतिबोधः, एवंविधः स्वापविशेषो निद्रेत्युच्यते । यत्र तु दुःखेन महता प्रयत्नेन प्रतिबोधः स निद्रानिद्रा । तथा स्थितो नाम-उपविष्ट ऊर्ध्वस्थितो वा तस्य या स्वापावस्था सा प्रचला । या तु 'चङ्क्रमतः' गतिपरिणतस्य निद्रा सा प्रचलाप्रचला । अत्र च निद्रा - प्रचलयोरधिकारे यन्निद्रानिद्रा - प्रचलाप्रचलयोर्व्याख्यानं तदनयोरप्यत्रैवान्तर्भावो द्रष्टव्य इति ज्ञापनार्थम् ।। अथ विस्तरतः प्रायश्चित्तं वर्णयितुकाम आह[भा. २४०१ ] संपामे असंपाइमे व दिट्टे तहेव अहिडे । पनगं लहु गुरु लहुगा, गुरुग अहालंद पोरुसी अहिया ||
वृ-दकतीरे 'सम्पातिमेऽ सम्पातिमे वा' उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽदृष्टो वा तिष्ठति । कियन्तं पुनः कालम् ? इत्याह-यथालन्दं पौरुषीमधिकं वा पौरुषीम् । तत्र यथालन्दं त्रिधाजघन्यं मध्यममुत्कृष्टं च । तत्र स्त्रिया आर्द्रः करो यावता कालेन शुष्यति तद् जघन्यम्, उत्कृष्टं पूर्वकोटिप्रमाणम्, तयोरपान्ताले सर्वमपि मध्यमम् । अत्र जघन्येन यथालन्देनाधिकारः । एवं यथालन्दादिभेदात् त्रिविधं कालं दकतीरे तिष्ठतः पञ्चकं लघुको गुरुको मासः लघुका गुरुकाश्चत्वारो मासा प्रायश्चित्तम् । एतदुपरिष्टाद् व्यक्तीकरिष्यते ॥
अथ सम्पातिमा -ऽ सम्पातिमपदे व्याख्याति
[भा. २४०२] जलजा उ असंपाती, संपातिम सेसगा उ पंचिंदी । अहवा मुत्तु विहंगे, होंति असंपातिमा सेसा ।।
वृ-ये 'जलजाः' मत्स्य-मण्डूकादयस्तेऽसम्पातिमाः, तैर्युक्तं दकतीरमप्यसम्पातिमम् । शेषाः 'पञ्चेन्द्रियाः' स्थलचराः खेचरा वा ये स्थानान्तरादागत्य सम्पतन्ति ते सम्पातिमास्तैर्यद् युक्तं तत् सम्पातिमम् । अथवा 'विहङ्गाः' पक्षिणस्ते यत्रागत्य सम्पतन्ति तत् सम्पातिमम् । तान् मुक्त्वा 'शेषाः ' स्थलचरा जलचरा वा सर्वेऽप्यसम्पातिमाः, तद्युक्तं दकतीरमसम्पातिमम् ॥
अथ पूर्वोक्तं प्रायश्चित्तं व्यक्तीकुर्वन्नाह
[भा. २४०३]
असंपाइ अहालंदे, अद्दिट्ठे पंच दिट्टि मासो उ ।
पोरिसि अदिट्ठि दिने, लहु गुरु अहि गुरुओ लहुआ उ ॥
वृ- असम्पातिमे दकतीरे जघन्यं यथा तन्दमध्ष्टस्तिष्ठति पञ्च रात्रिन्दिवानि, दृष्टस्तिष्ठति मासलघु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org