________________
७४
बृहत्कल्प-छेदसूत्रम् -२-१/१९
असम्पातिमे पौरुषीमध्ष्टस्तिष्ठति मासलघु, दृष्टस्तिष्ठति मासगुरु, अधिकां पौरुषीम दृष्टस्तिष्ठति मासगुरु, दृष्टस्तिष्ठति चतुर्लघु । एवमसम्पातिमे दकतीरे भणितम् ॥
[भा. २४०४] संपाइमे वि एवं मासादी नवरि ठाइ चउगुरुए । भिक्खू-वसभा-ऽऽयरिए, तव कालविसेसिया अहवा ।।
- सम्पातिमेऽप्येवमेवार्द्धापक्रान्त्या प्रायश्चित्तं द्रष्टव्यम् । नवरं लघुमासादारब्धं चतुर्गुरुके तिष्ठति, एतदोघतः प्रायश्चित्तम् । अथवैतान्येव भिक्षु वृषभा ऽभिषेकाऽऽचार्याणां तपःकालविशेषितानि भवन्ति । तथाहि पूर्वोक्तं सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम्, वृषभस्य कालगुरु तपोलघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम्। अत्र चाभिषेकपदं गाथायामनुक्तमपि "तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात् प्रतिपत्तव्यम् । एष द्वितीय आदेशः ||
[भा. २४०५]
अहवा भिक्खुस्सेयं, वसभे लहुगाइ ठाइ छल्लहुए । अभिसे गुरुगादी, छग्गुरु लहु छेदो आयरिए ॥
वृ- अथवा यदेतत् प्राश्चित्तमुक्तं तद् भिक्षोर्द्रष्टव्यम् । वृषभस्य तु मासलघुकादारब्धं षड्लघुके तिष्ठति, तत्रासम्पातिमे यथालन्द- पौरुषी-समधिकपौरुषीषु दृष्टा-दृष्टयोर्मासलघुकादारब्धं चतुर्गुरुके तिष्ठति । सम्पातिमे एतेष्वेव स्थानेषु मासगुरुकादारब्धं षड्लघुके पर्यवस्यति । 'अभिषेकस्य' उपाध्यायस्यासम्पातिमे मासगुरुकादारब्धं षड्लघुके तिष्ठति, सम्पातिमे चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धमसम्पातिमे षड्गुरुके सम्पातिमे चतुर्गुरुकादारब्धं छेदे निष्ठामुपगच्छति । एष तृतीय आदेशः । अथ चतुर्थमादेशमाह
[भा. २४०६ ] अहवा पंचण्हं संजईण समणाण चेव पंचण्हं ।
पनगादी आरद्धं, नेयव्वं जाव चरिमपदं ॥
वृ- अथवा क्षुल्लिकादिभेदात् पञ्चानां संयतीनां श्रमणानां चैव पञ्चानां पञ्चकादेरारब्धं प्रायश्चित्तं तावद् नेतव्यं यावत् 'चरमपदं' पाराञ्चिकम् ।। एतदेव सविशेषमाह
[भा. २४०७] संजइ संजय तह संपS संप अहलंद पोरिसी अहिया । चिट्ठाई अद्दि, दिट्ठे पनगाइ जा चरिमं ॥
वृ- संयत्यः क्षुल्लिका स्थविरा भिक्षुणी अभिषेका प्रवर्त्तिनी चेति पञ्चविधाः, संयता अपि क्षुल्लक-स्थविर- भिक्षुको-पाध्याया ऽऽचार्यभेदात् पञ्चधा, “संपऽसंपत्ति सूचकत्वात् सूत्रस्य सम्पातिममसम्पातिमं वा दकतीरम्, यथालन्द-पौरुषी-अधिकपौरुषीलक्षणं कालत्रयम्, स्थाननिषदनादीनि च दश पदानि, अदृष्टे दृष्टे चेति पदद्वयम् । एतेषु पदेषु पञ्चकादिकं चरमं प्रायश्चित्तं यावद् नेतव्यम् ॥ कियन्ति पुनः प्रायश्चित्तस्थानानि भवन्ति ? इति दर्शयति
[भा. २४०८] पण दस पनरस वीसा, पनवीसा मास चउर छ च्चैव । लहु गुरुगा सव्वेते, छेदो मूलं दुगं चेव ॥
- पञ्चरात्रिन्दिवानि दशरात्रिन्दिवानि पञ्चदशरात्रिन्दिवानि विंशतिरात्रिन्दिवानि पञ्चविंशतिरात्रिन्दिवानि मासिकं चत्वारो मासाः षण्मासाश्च, एतानि सर्वाणि लघुकानि गुरुकाणि च, तद्यथा-लघुपञ्चरात्रिन्दिवानि गुरुपञ्चरात्रिन्दिवानि इत्यादि, एतानि षोडश सञ्जतानि, छेदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org