________________
उद्देशक : १, मूलं-१९, [भा. २४०८]
७५ मूलं 'द्विकं चैव' अनवस्थाप्य-पाराञ्चिकयुगम्, एवं विंशति प्रायश्चित्तस्थानानि भवन्ति ।
अथामीषामेव पदानां चारणिकां कुर्वन्नाह[भा.२४०९] पनगाइ असंपाइम, संपाइमऽट्ठिमेव दिढे य ।
चउगुरुए ठाइ खुड्डी, सेसाणं वुड्डि एक्कक्कं ।। वृ- असम्पातिमे यथालन्दमष्टा क्षुल्लिका तिष्ठति लघुपञ्चकम्, दृष्टा तिष्ठति गुरुपञ्चकम्, पौरुषीमष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदशकम्, अधिकं पौरुषीमदृष्टा तिष्ठति लघुदशकम्, दृष्टायां गुरुदशकम् । सम्पातिमे यथालन्दमष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदकम्, पौरुषीमदृष्टा तिष्ठति लघुदशकम्, दृष्टायां गुरुदशकम्, समधिकां पौरुषीमदृष्टायां तिष्ठन्त्यां गुरुदशकम्, दृष्टायां लघुपञ्चदशकम् । एवमूर्द्धवस्थानमाश्रित्योक्तम् । निषीदन्त्यास्तु गुरुपञ्चरात्रिन्दिवेभ्यःप्रारब्धं गुरुपञ्चदशरात्रिन्दिवेषु, त्वरवर्तनं कुर्वत्या लघुदशरात्रिन्दिवादारब्धं लघुविंशतिरात्रिन्दिवेषु, एवं निद्रायमाणाया गुरुविंशतिरात्रिन्दिवेषु, प्रचलायमानाया लघुपञ्चविंशतिरात्रिन्दिवेषु, अशनाद्याहारमाहरन्त्या गुरुपञ्चविंशतिरात्रिन्दिवेषु, उच्चारप्रश्रवणे आचरन्त्या लघुमासे, स्वाध्यायं विदधानाया मासगुरुके, धर्मजागरिकया जाग्रत्याश्चतुर्लघुके, कायोत्सर्गं कुर्वत्याश्चतुर्गुरुके तिष्ठति । एवं क्षुल्लिकायाः प्रायश्चित्तमुक्तम् । शेषाणां तु स्थविरादीनामेकैकं स्थानमुपरि वर्द्धते अधस्ताच्चैकैकं स्थानं हीयते । तद्यथा-स्थविराया गुरुपञ्चकादारब्धं षड्लघुकं यावद्, भिक्षुण्या लघुदशकादारब्धं पङ्गुरुकान्तम्, अभिषेकाया गुरुदशकादारब्धंछेदपर्यन्तम्, प्रवर्त्तिन्या लघुपञ्चदशकादारब्धमूलान्तमवसातव्यम्॥एतदेवाह[भा.२४१०] छल्लहुए ठाइ थेरी, भिक्खुणि छग्गुरुए छेद गणिणी उ।
मूले पवत्तिनी पुन, जह भिक्खुणि खुड्डए एवं ।। वृ-स्थविरा षड्लघुके, भिषुणी षड्गुरुके, 'गणिनी' अभिषेका सा छेदे, प्रवर्तिनी पुनर्मूले तिष्ठतीति । यथा च भिक्षुण्यां एवं क्षुल्लकेऽपि द्रष्टव्यम्, दशभ्यो लघुरात्रिन्दिवेभ्यः षड्गुरुकान्तमसम्पातिम-सम्पातिमादिषु प्रायश्चित्त भवतीत्यर्थः ॥ [भा.२४११]गणिणिसरिसो उ थेरो, पवत्तिणिविभागसरिसओ भिक्खू।
अड्डोकंती एवं, सपदं सपदं गणि-गुरूणं ॥ वृ-गणिनी-अभिषेका तस्याः सद्दशः स्थविरः, यथाअभिषेकायागुरुदशकमादौ कृत्वाच्छेदान्तं भणितंतथा स्थविरस्यापि भणनीयमिति भावः । प्रवर्त्तिन्याः प्रायश्चित्तविभागेनसशोभिक्षुर्भवति, लघुपञ्चदशकात् प्रभृति मूलान्तं प्रायश्चित्तं तस्यापि ज्ञेयमिति हृदयम् । एवम् ‘अर्धापक्रान्त्या' अधस्तनैकपदह्रासोपरितनपदैकवुध्यात्मिकया गणी उपाध्यायो गुरु-आचार्यस्तयोरपि स्वपदं स्वपदंयावत् प्रायश्चित्तं नेतव्यम् तत्रोपाध्यायस्य गुरुपञ्चदशकमादौ कृत्वा स्वपदमनवस्थाप्यम्, . आचार्यस्य लघुविंशतिरात्रिन्दिवादारभ्य स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम् ।। [भा.२४१२] एवं तु चिट्ठणादिसु, सव्वेसुपदेसु जाव उस्सग्गो।
पच्छित्ते आदेसा, इक्विकपयम्मि चत्तारि॥ वृ-'एवम्' अमुना प्रकारेण स्थान-निपदनादिषु सर्वेष्वपि पदेषु कायोत्सर्गं यावदेकैकस्मिन् पदे प्रायश्चित्तविषयाश्चत्वार आदेशा भवन्ति । तद्यथा-एकं तावदौधिकं प्रायश्चित्तम्, द्वितीयं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only