________________
२०८
बृहत्कल्प-छेदसूत्रम् -२-१/४५ दृष्ट्वा निवारणं करोति, मैतेषांवस्त्राण्यपहरत' इति । अथ नासौ तत्र सन्निहितस्ततः स्तेनैगृहितं सदुपकरणं भूयोऽपि प्रेषयति ॥अमुमेव गाथाऽवयवं व्याचष्टे[भा.३०१०] नीयं दट्ठण बहि, छिन्नदसं सिव्वणीहि वा नाउं ।
पेसे उवालभित्ताण तक्करे भद्दओ अहिवो॥ वृ- स चौरसेनाधिपति साधूनामुपधिं 'नीतम्' उपढौकितं दृष्ट्वा छिन्नदशाकत्वेन साधुसम्बन्धिनीभिः सीवनीभिः सीवितत्वेन वा 'साधूनां सत्कमेतद् वस्त्रम्' इति ज्ञात्वा तान् तस्करानुपालभते-आःपापाः! विनष्टाः स्यूयं यदेवं महात्मनांसाधूनां वस्त्राण्यपहृतानीत्यादि। एवमुपालभ्य भूयोऽपि तस्योपधेः साधूनामर्पणार्थं तानेव तस्करान् साधूनामन्तिके प्रेषयति ॥ [भा.३०११] वीसत्थमप्पिणंते, भएणछड्डित्तु केइ वचंति।
बहिया पासवण उवस्सए व दिट्ठम्मिजा जयणा ॥ वृ-स्तेना द्विविधाः-आक्रान्तिका अनाक्रान्तिकाश्च । तत्र ये आक्रान्तिकास्ते कुतोऽपि न बिभ्यति, अतएव ते चौरसेनापतिनावस्त्रप्रत्यर्पणार्थ प्रेषिताः सन्तः 'विश्वस्ताः'निर्भया दिवसत एवआनीयवस्त्रं संयतानामर्पयन्ति । अनाक्रान्तिकास्तुभयेन ‘माकेनाप्यारक्षकादिनाग्रहीष्यामहे' इतिपरिभाव्य रात्रावानीयोपाश्रयाबहि प्रश्रवणभूमावुपाश्रयमध्ये वावस्त्रंछर्दयित्वा'व्रजन्ति' पलायन्ते। तस्मिन् वस्त्रे दृष्टे सति या वक्ष्यमाणा यतना सा करणीया ॥तामेवाह[भा.३०१२] गीयमगीया अविगीयपच्चयट्ठा करिति वीसुंतु।
जइ संजई वितहियं, विगिंचिया तासि वि तहेव ।। वृ-यदि सर्वेऽपि गीतास्तितस्तदुपकरणं मौलोपकरणेन सह मीलयित्वा यथास्वरुचि तं परिभुञ्जते । अथ ते केचिद् गीतार्था केचित्रागीतार्था ततो गीतार्था अविगीतप्रत्ययार्थं हृताहृतिकोपकरणं 'विष्वक् पृथक्स्थापयन्ति। ते ह्यगीतार्था एवं चिन्तयेयुः-एषस्तेनप्रत्यर्पित उपधिस्तावदुपहतः, उपहतेन च सह मिश्रित इतरोऽप्युपहत एव, अतस्तेषां प्रत्ययार्थं हृताहृतिकोपकरणं पृथक् स्थापयन्ति । अथ संयत्योऽपि विविक्ताः ततस्तासामप्युकरणं तथैव पृथक् कुर्वन्ति॥ [भा.३०१३] जो विय तेसिं उवही, अहागडऽप्पो य सपरिकम्मो य।
तंपिय करिति वीसुं, मा अविगीयाइ भंडेज्जा ।। वृ-योऽपिच तेषां साधूनांयथाकृतोऽल्पपरिकर्मासपरिकर्माचोपधिस्तमपि विष्वक्परस्परं कुर्वन्ति । कुतः? इत्याह-मा ‘अविगीतादयः' अगीतार्थादयः परस्परं 'भण्डेयुः' कलहं कुर्युः, यथा-किमिति त्वया मदीयो यथाकृतोपधि सपरिकर्मणा सह मीलितः ? इत्यादि । एवं तावद् भद्रकसेनापतौ विधिरमिहितः । अथ प्रान्तविषयं विधिमाह[भा.३०१४] पंतोवहिम्मिलुद्धो, आयरिए इच्छए विवादेउं ।
कयकरणे करणं वा, आगाढें किसो सयं भणइ ॥ वृ-प्रान्तश्चौरसेनापति 'उपधौ' उपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति । ततो यस्तत्र 'कृतकरण' धर्मकथालब्धिमान्धनुर्वेदादिकृताभ्यासोवास तत्र करणंकरोति, धर्मकथादिना स्वभुजबलप्रकटनेन वा तमुपशमयतीत्यर्थः । अथवा ईशे आगाढे कार्ये यः ‘कृशः' दुर्बलदेहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org