________________
उद्देशक : १, मूलं- ४५, [भा. ३००३]
[भा. ३००३]
[भा. ३००४]
वृ-गाथाद्वयमपि प्राग् व्याख्यातम् ।। तत्राध्वनि प्रविशतां विधिमाह[भा. ३००५ ] अद्धाण पविसमाणा, गुरुं पवादिंति ते गता पुरतो । अह तत्थ न वादेंती, चाउम्मासा भवे गुरुगा ॥
.
वृ-अध्वानं प्रविशन्तः प्रथममेव 'गुरुम्' आचार्य प्रवादयन्ति, गुरोः प्रवादमुत्थापयन्तीत्यर्थः । यथा- 'ते' अस्माकमाचार्या 'पुरतः ' पूर्वमेवान्येन सार्थेन सह गताः अत एव वयं त्वरामहे, कथं नाम तेषां समीपं क्षिप्रमेव प्राप्नुयाम ? । अथ तत्राध्वनि प्रविशन्त एवं न प्रवादयन्ति ततश्चतुर्मासा गुरुकाः प्रायश्चित्तम् ॥ [भा. ३००६]
उद्दद्दरे सुभिक्खे, अद्धाणपवज्जणं तु दप्पेणं । लहुगा पुन सुद्धपए, जंवा आवज्जई जत्थ ॥ नाट्ठ दंसणट्टा, चरित्तट्ठा एवमाइ गंतव्वं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥
२०७
गुरसारक्खहेउं, तम्हा थेरो उ गणधरो होइ । विहरइ य गणाहिवई, अद्धाणे भिक्खुभावेणं ॥
वृ-तस्माद् गुरुणां संरक्षणहेतोर्य 'स्थविरः' वयोवृद्धः स गणधरो भवति, गणधराकारधारकः क्रियत इत्यर्थः । यस्तु गणाधिपति सः 'अध्वनि' मार्गे स्वयं 'भिक्षुभावेन' सामान्यसाधुवेषेण विहरति ॥ कुतः ? इति चेद् उच्यते-कदाचिदध्वनि साधवः स्तेनकैर्विविक्ताः क्रियेरन् ततस्ते स्तेनकाश्चिन्तयेयु:[भा. ३००७]
हयनायगा न काहिंति उत्तरं राउले गणे वा वि । अम्हं आहिपइस्स व, नायग-मित्ताइएहिं वा ॥
वृ- हतो नायकः-आचार्यो येषां ते हतनायकास्तथाभूताः सन्त एते व्रतिनो राजकुले वा गणे वागत्वा न किमपि ‘उत्तरम्' उपकरणापहाररावात्मकं करिष्यन्ति, अस्वामिकतया निराशीभूतत्वात्। तथाऽस्माकं योऽधिपति तस्य वा तदीया वा ये ज्ञातकाः स्वजना यानि च तदीयानि मित्राणि तदादीनां तत्प्रभृतीनामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति आचार्यस्यैव तत्प्रदानप्रगल्भत्वादिति भावः । तस्मादाचार्यमेवापद्रावयाम इति विचिन्त्य तथैव कुर्युः । ततो यथोक्तनीत्या गुरवः प्रवादयितव्याः । ते च स्तेनाश्चतुर्विधाः
[भा. ३००८]
संजयपंता य तहा, गिहिभुद्दा चेव साहुभद्दा य । तदुभयभद्दा पंता, संजयभद्देसु आहडिया ॥
वृ- एके संयतप्रान्ता गृहस्थभद्रकाः १ अन्ये साधूनां भद्रका गृहस्थप्रान्ताः २ अपरे तदुभयभद्रकाः ३ अपरे तदुभयप्रान्ताः ४ । अत्र ये संयतभद्रकास्तेपु हृताहृतिका भवेत्, हृत्वाऽपि ते भूयो वस्त्रमर्पयेयुरित्यर्थः । इदमेव स्पष्टति -
[भा. ३००९ ] सत्थे विविच्चमाणे, आहिपई भद्दओ व पंतो वा ।
भद्दो दट्ठूण निवारणं व गहियं व पेसेइ ॥
वृ- सार्थे स्तेनैः 'विविच्यमाने' मुष्यमाणे साधवोऽपि विविच्येरन् । तत्र च यः 'अधिपति' चौरसेनाधिपति स साधूनां भद्रको वा स्यात् प्रान्तो वा । यदि भद्रकस्तदा साधून् विविच्यमानान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org